नित्यं संज्ञाछन्दसोः

4-1-29 नित्यं सञ्ज्ञाछन्दसोः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् बहुव्रीहेः अनः उप्धालोपिनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य बहुव्रीहिसमासस्य अन्ते 'अन्' इति विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि अन्-इत्यस्य अकारलोपः सम्भवति, तर्हि तस्मात् समस्तपदात् संज्ञानिर्देशे कर्तव्ये; वेदेषु वा ङीप्-प्रत्ययः नित्यं भवति ।

Kashika

Up

अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्यापवादः। सुराज्ञी। अतिराज्ञी नाम ग्रामः। छन्दसि — गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एक॑मूर्ध्नी (शौ०सं० ८.९.१५)। स॑मा॒नमू॑र्ध्नी (तै०सं० ४.३.११.४)॥

Siddhanta Kaumudi

Up

अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । यदि कस्यचित् बहुव्रीहिसमासस्य अन्ते अन् इति शब्दः विद्यते, तथा च तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि प्रक्रियायाम् अन्-इत्यस्य अकारस्य लोपः सम्भवति, तर्हि तत्र संज्ञायाः निर्देशः करणीयः अस्ति चेत्; अथवा वैदिकप्रयोगः साधनीयः अस्ति चेत् ङीप्-प्रत्ययः नित्यं भवति — इति अस्य सूत्रस्य अर्थः । <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इति सूत्रेण प्राप्तं वैकल्पिकं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययस्य नित्यं विधानं भवति । प्रकृतसूत्रस्य प्रयोगः केवलं द्वयोः स्थलयोः एव भवति — (1) संज्ञायाः निर्देशार्थम्, (2) वैदिकप्रयोगसिद्ध्यर्थम् । यथा — 1. संज्ञानिर्देशे ङीप्‌ — सुराज्ञी इति कस्याश्चन नगर्याः नाम । अस्य सिद्धिः एतादृशी — शोभनाः राजानः यस्यां सा [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → सु + राजन् + ङीप् [<<नित्यं संज्ञाछन्दसोः>> 4.1.29 इति संज्ञानिर्देशार्थम् ङीप्] → सु + राज् न् + ई [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → सु + राज् ञ् + ई [<<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] → सुराज्ञी एवमेव, अतिक्रान्ताः राजानः यस्यां नगर्यां सा = अतिराज्ञी इति अन्या संज्ञा अपि सिद्ध्यति । संज्ञाभिन्नेषु स्थलेषु तु <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः सुराज्ञी, सुराज्ञा, सुराजन् इति त्रयः शब्दाः सिद्ध्यन्ति । 2. वैदिकप्रयोगसिद्ध्यर्थं ङीप्‌ — पञ्चमूर्ध्नी इति कश्चन वैदिकप्रयोगः । अस्य सिद्धिः इयम् — पञ्च मूर्धानः यस्याः सा [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → पञ्चन् + मूर्धन् + ङीप् [<<नित्यं संज्ञाछन्दसोः>> 4.1.29 इति संज्ञानिर्देशार्थम् ङीप्] → पञ्चन् + मूर्ध् न् + ई [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → पञ्च + मूर्ध् न् + ई [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पञ्चमूर्ध्नी एवमेव, समानं मूर्धानः अस्याः सा = समानमूर्ध्नी इति अन्यः वैदिकप्रयोगः अपि सिद्ध्यति । अवैदिकेषु संज्ञाभिन्नस्थलेषु तु <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः पञ्चमूर्ध्नी, पञ्चमूर्धा, पञ्चमूर्धन् इति त्रयः शब्दाः सिद्ध्यन्ति ।

Balamanorama

Up

Padamanjari

Up

ननु च्छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद् दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुअं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाच्छन्दसोरिति पदमुतरार्थं वक्तव्यम् । नित्यग्रहणमुतरत्र विकल्पनिवृत्यर्थम् ॥