3-4-83 विदः लटः वा प्रत्ययः परः च आद्युदात्तः च धातोः लस्य परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
index: 3.4.83 sutra: विदो लटो वा
विदः लिटः लस्य परस्मैपदानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-माः वा
index: 3.4.83 sutra: विदो लटो वा
विद्-धातोः लट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।
index: 3.4.83 sutra: विदो लटो वा
For the verb विद्, the प्रत्ययाः of लिट्लकार are optionally converted (respectively) to णल्,अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म.
index: 3.4.83 sutra: विदो लटो वा
परस्मैपदानाम् इत्येव। विद ज्ञाने, अस्माद् धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेन आदेशा भवन्ति। वेद, विदतुः, विदुः। वेत्थ, विदथुः, विद। वेद, विद्व, विद्म। न च भवति। वेत्ति, वित्तः, विदन्ति। वेत्सि, वित्थः, वित्थ। वेद्मि, विद्वः, विद्मः।
index: 3.4.83 sutra: विदो लटो वा
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-<{SK2341}> इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥
index: 3.4.83 sutra: विदो लटो वा
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद। विदतुः। विदुः। वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे - वेत्ति। वित्तः। विदन्ति॥
index: 3.4.83 sutra: विदो लटो वा
विदँ (ज्ञाने) अयमदादिगणस्य धातुः । अस्मात् धातोः विहितानाम् परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म- एते आदेशाः भवन्ति ।
अत्र विदँ (ज्ञाने) अस्यैव ग्रहणम् करणीयम्, अन्येषाम् विद्-धातूनाम् न । अस्य कारणम् एतत् - अस्मिन् सूत्रे 'विदः' इति पञ्चमी-विभक्तेः प्रयोगः क्रियते । अतः तस्मादित्युत्तरस्य 1.1.67 इत्यनेन विद्-धातोः अनन्तरम् स्थापिताः 'विकरणेन अव्यवहिताः तिबादयः' एव स्वीकरणीयाः । अतः दिवादिगणस्य / तुदादिगणस्य / चुरादिगणस्य च विद्-धातोः ग्रहणं न करणीयम् । तथा च, रुधादिगणे अपि कश्चन विद्-धातुः अस्ति, परन्तु सः आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति, अतः तस्मात् धातोः परस्मैपदस्य प्रत्ययाः न भवन्त्येव । अतः एकः एव अवशिष्टः अदादिगणस्य विद्-धातुः अत्र स्वीक्रियते ।
index: 3.4.83 sutra: विदो लटो वा
विदो लटो वा - विदो लटो वा ।परस्मैपदानां णलतु॑सित्यादिसूत्रमनुवर्तते ।विद॑इति पञ्चमी । तदाह — वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः । इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्षे इति । न लघूपधगुण इत्यन्वयः । कुत इत्यत आह — अकारान्तनिपातनादिति ।उषविदे॑ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः । वेदितेति । वेदिष्यतीत्यपि ज्ञेयम् ।
index: 3.4.83 sutra: विदो लटो वा
विद ज्ञाने इति । सताविचारार्थयोस्त्वात्मनेपदित्वातिबादीनामसम्भवः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तराणामसम्भव इति भावः ॥