अन्तरपरिग्रहे
1-4-65 अन्तः अपरिग्रहे आ कडारात् एका सञ्ज्ञा निपाताः गतिः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
स्वीकरणभिन्ने अर्थे "अन्तर्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति ।
Kashika
Up
अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अ॒र्न्तह॑तम्। यद॑न्त॒र्हन्ति॑। अपरिग्रह इति किम्? अन्तर्हत्वा मूषिकां श्येनो गतः। परिगृह्य गत इत्यर्थः॥ अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा वक्तव्या॥ अन्तर्धा। अन्तर्धिः। अन्तर्णयति॥
Siddhanta Kaumudi
Up
अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षष्ठं सूत्रम् । अनेन सूत्रेण परिग्रह: (= स्वीकारः / acceptance) इति अर्थं विहाय अन्यस्मिन् अर्थे (यथा, मध्ये अस्मिन् अर्थे) प्रयुक्तस्य अन्तर्-इति शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - श्येनः मूषिकां अन्तर्हत्य त्यक्त्वा गतः (= श्येनः मूषिकाम् तस्याः शरीरस्य मध्यभागे हननं कृत्वा, तां तथैव तत्र विहाय निर्गतः - इत्याशयः) ।
अपरिग्रहे इति किमर्थम् ?
यदा <<अन्तर् + हन्>> इति धातुः
परिग्रहः ( स्वीकरणम्) अस्मिन् अर्थे प्रयुज्यते तदा तस्य गतिसंज्ञा मा भूत् इति स्पष्टीकर्तुं प्रकृतसूत्रे
अपरिग्रहे इति निर्देशः कृतः अस्ति । अतएव
मूषिकां अन्तर्हत्वा श्येनः गतः (= मूषिकां हत्त्वा, तां भोजनरूपेण स्वीकृत्य श्येनः गतः - इत्याशयः) अस्मिन् वाक्ये
अन्तर्-शब्दस्य गतिसंज्ञा न भवति, अतश्च गतिसमासः न भवति, अतश्च ल्यबादेशः अपि नैव कृतः वर्तते।
वार्त्तिकम् - <!अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम्!>
अन्तर्-शब्दस्य अङ्-विधौ, कि-विधौ, तथा च णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । क्रमेण उदाहरणानि एतानि —
i. <<अङ्>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<आतश्चोपसर्गे>> 3.3.106 इत्यनेन आकारान्तधातुभ्यः उपसर्गस्य उपस्थितौ विधीयमानः <<अङ्>>-प्रत्ययः <<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन अन्तर् + धा + अङ् + टाप् → अन्तर्धा इति शब्दः सिद्ध्यति ।
ii. <<कि>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<उपसर्गे घोः किः>> 3.3.92 इत्यनेन घु-संज्ञकात् उपसर्गस्य उपस्थितौ विधीयमानः <<कि>>-प्रत्ययः <<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन अन्तर् + धा + कि → अन्तर्धि इति शब्दः सिद्ध्यति ।
iii. णत्वे कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<भू>>-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तमपुरुषैकवचने कर्तव्ये <<आनि लोट्>> 8.4.16 इत्यनेन णत्वम् कृत्वा अन्तर्भवाणि इति णकारघटितम् रूपम् सिद्ध्यति । एवमेव, <<नी>>-धातोः नकारस्य अन्तर्-शब्दस्य उपस्थितौ <<उपसर्गादसमासेऽपि णोपदेशस्य>> 8.4.14 इत्यनेन णत्वं विधीयते येन अन्तर्णयनम् इति रूपं सिद्ध्यति ।
##Balamanorama
<<अन्तरपरिग्रहे>> - अन्तरपरि । अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । हतं परिगृह्रेति । हत्वा गमनं हतमपरिगृह्र परिगृह्र वा भवति । तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् ।
##Padamanjari
अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम् - अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि'हन्तेरत्पूर्वस्य' इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि'कृत्यचः' इत्येव सिद्धमिति ठन्तरदेशेऽठयनं चऽ इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्॥