8-4-16 आनि लोट् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्
index: 8.4.16 sutra: आनि लोट्
उपसर्गात् रषाभ्यां लोट् आनि नः णः
index: 8.4.16 sutra: आनि लोट्
लोट्-लकारस्य 'आनि' इत्यस्य नकारस्य उपसर्गस्थ-रेफ/षकार-ऋवर्णेन णत्वं भवति ।
index: 8.4.16 sutra: आनि लोट्
A रेफ present in an उपसर्ग causes the णत्व of नकार of the 'आनि' प्रत्यय of लोट्-लकार.
index: 8.4.16 sutra: आनि लोट्
आनि इत्येतस्य लोडादेशस्य उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारदेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोतिति किम्? प्रवपानि मांसानि।
index: 8.4.16 sutra: आनि लोट्
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि ।<!दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ दुःस्थितिः । दुर्भवानि ।<!अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् !> (वार्तिकम्) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥
index: 8.4.16 sutra: आनि लोट्
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि। दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः (वार्त्तिकम्)। दुःस्थितिः। दुर्भवानि। अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम् (वार्त्तिकम्)। अन्तर्भवाणि॥
index: 8.4.16 sutra: आनि लोट्
रेफ/षकार/ऋवर्णेन युक्तस्य उपसर्गस्य उपस्थितौ धातोः विहितस्य लोट्-लकारस्य उत्तमपुरुषैकवचनस्य 'आनि' प्रत्ययस्य नकारस्य णत्वं विधीयते । यथा -
'प्र + वप्' धातोः लोट्लकारस्य उत्तमपुरुषैकवचनम् 'प्रवपाणि' इति ।
'प्र + या' इत्यस्य रूपम् 'प्रयाणि' इति ।
'प्र + भू' इत्यस्य रूपम् प्रभवाणि ।
ज्ञातव्यम् -
'प्रवप' इति कश्चन नपुंसकलिङ्गशब्दः अपि अस्ति । एतस्य प्रथमाद्वितीयाबहुवचनं तु 'प्रवपानि' इत्येव भवति । अत्र 'प्र' तथा 'वप' एते द्वे पदे स्तः, अतः पूर्वपदस्थ-नकारेण नुमागमस्य णत्वं न जायते ।
कौमुद्यामत्र वार्त्तिकद्वयम् पाठ्यते -
(अ) <!दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः!> । इत्युक्ते, षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । यथा -
'दुर् + भू' इत्यस्य लोट्लकारस्य प्रथमपुरुषैकवचनम् 'दुर्भवानि' इति भवति । अत्र दुर्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि आनि लोट् 8.4.16 इत्यनेन नकारस्य णत्वमभविष्यत् । परन्तु णत्वे कर्तव्ये दुर्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति ।
'दुस् + स्था' इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् 'दुःस्थास्यति' इति भवति । अत्र दुस्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि उपसर्गात् सुनोतिसुवति... 8.3.65 इत्यनेन स्था-इत्यस्य सकारस्य षत्वमभविष्यत् । परन्तु षत्वे कर्तव्ये दुस्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति ।
(आ) <!अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम्!> । इत्युक्ते, 'अन्तर्' शब्दस्य अङ्विधिकर्तव्ये, 'कि'विधिकर्तव्ये, तथा णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । यथा -
अन्तर् + धा (= अन्तर्धा) इत्यत्र आतश्चोपसर्गे 3.3.106 इत्यनेन अङ्-प्रत्ययः भवितुमर्हति, यतः अङ्विधिकर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति ।
अन्तर् + धिः (= अन्तर्धिः) इत्यत्र उपसर्गे घोः किः 3.3.92 इत्यनेन कि (=इ) प्रत्ययः भवति ।
'अन्तर् + भू' अस्य लोट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ आनि लोट् 8.4.16 इत्यनेन णत्वम् भवितुमर्हति ।
एते द्वे अपि वार्त्तिके उपसर्गाः क्रियायोगे 1.4.59 इत्यत्रापि दत्ते स्तः ।
index: 8.4.16 sutra: आनि लोट्
आनि लोट् - आनि लोट् । लोडिति आनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो ण' इत्यनुवर्तते,उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तदाह — उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः ।अट्कुप्वाङ्नुम्व्यवायेऽपी॑ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । अत्रोपसर्गात्सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्राऽऽनि लोडिति णत्वं न भवति । अन्तःशब्दस्येति । अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ- । प्रादित्वाऽभावादप्राप्ते वचनम् । अन्तर्धेति ।स्त्रिया॑मित्यधकारे धाधातोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । अन्तर्भवाणीति ।आनि लो॑डिति णत्वम् ।
index: 8.4.16 sutra: आनि लोट्
प्रवपाणीति । वपेर्लोट्,'मेर्निः' । ठाडुतमस्य पिच्चऽ, प्रयाणीति याते रूपम् । प्रवपानीति । प्रकृष्टा वपा येषु तानि प्रवपानि । आनिलोड्ग्रहणमनर्थकम्; अर्थवद्ग्रहणात्, अर्थवत आनिशब्दस्य ग्रहणम्, न चैषोऽर्थवान् । अनुपसर्गाद्वा, यत् क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः, न चैतमानिशब्द प्रति क्रियायोगः, तदन्तं तु प्रति भवति । कथं नैवं विज्ञायते - यस्य क्रिया यत्क्रिया, यत्क्रियायुक्ता इति ? कथं तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ता इति, प्रयोगविषया च क्रिया न क्वचिदसंसृष्टास्तीति समुदायस्याश्रीयत इति आनिशब्दान्तं समुदायं प्रति क्रियायोगः । तत्रायं च सूत्रार्थः - उपसर्गात् परस्यावयवो य आनिशब्दस्तन्नकारस्य णत्वमिति । तदेवं प्रत्याख्यातं लोड्ग्रहणम् ॥