आतश्चोपसर्गे

3-3-106 आतः च उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां अङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आकारान्तेभ्य उपसर्ग उपपदे स्त्रियामङ् प्रत्ययो भवति। क्तिनोऽपवादः। प्रदा। उपदा। प्रधा। उपधा। श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा॥

Siddhanta Kaumudi

Up

अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥<!श्रदन्तरोरुपसर्गवद्वृत्तिः !> (वार्तिकम्) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः <{SK3270}> इत्यनेन किः । अन्तर्धिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पतिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् ठन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति - अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति ठुपसर्गादसमासेऽपिऽ इति णत्वमपि भवति ॥