उपसर्गादसमासेऽपि णोपदेशस्य

8-4-14 उपसर्गाद् असमासे अपि णोपदेशस्य पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

पूर्वपदात् उपसर्गात् रषाभ्याम् ण-उपदेशस्य नः णः, असमासेऽपि

Neelesh Sanskrit Brief

Up

यस्मिन् धातौ औपदेशिकावस्थायां णकारः अस्ति, तस्य नकारस्य णत्वनिमित्तकात् उपसर्गात् परः णकारः भवति ।

Neelesh English Brief

Up

A धातु which has णकार in the औपदेशिक form get णत्वम् in presence of an उपसर्ग that has रेफ or षकार.

Kashika

Up

ण उपदेशे यस्यासौ णोपदेशः। णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थाद् निमित्तादुत्तरस्य णकारादेशो भवत्यसमासेऽपि समासेऽपि। प्रणमति। परिणमति। प्रणायकः। परिणायकः। उपसर्गादिति किम्? प्रगता नायका अस्माद् देशात् प्रनायको देशः। असमासेऽपीति किम् ? पूर्वपदाधिकारात् समास एव स्यादिति तदधिकारनिवृत्तिद्योतनार्थम्। णोपदेशस्येति किम्? प्रनर्दति। प्रनर्दकः॥

Siddhanta Kaumudi

Up

उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति ।{$ {!55 अर्द!} गतौ याचने च$} । अत आदेः <{SK2248}> ॥

Laghu Siddhanta Kaumudi

Up

उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥

Neelesh Sanskrit Detailed

Up

उपसर्गस्थ-रेफ/षकार/ऋकारेण धातौ स्थितस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये अनेन सूत्रेण सिद्धान्तः प्रोक्तः अस्ति । उपसर्गाः स्वयं पदसंज्ञां स्वीकुर्वन्ति । अतः 'उपसर्ग + धातु' इत्यत्र पदद्वयमस्तु । इत्युक्ते, <<रषाभ्यां नो णः समानपदे>> 8.4.1 इत्यनेन उपसर्गस्य योगे धातोः णत्वं भवितुं न शक्यते । अतः उपसर्गस्य योगे धातौ कदा णत्वं विधीयते एतत् स्पष्टीकर्तुम् अस्य सूत्रस्य निर्माणं कृतमस्ति । किमुच्यते अनेन सूत्रेण? धातौ स्थितस्य नकारस्य तदैव णत्वं भवति यदा सः नकारः धातोः औपदेशिक-अवस्थायाम् णकाररूपेण उक्तः अस्ति । किम् नाम 'औपदेशिक-अवस्था' ? सर्वे धातवः, यथा धातुपाठे दत्ताः, तस्मिन् रूपे 'उपदेशाः' नाम्ना ज्ञायन्ते । इयमेव तेषाम् औपदेशिक-अवस्था । कः अर्थः? वन्द्-धातुः 'वदि अभिवादनस्तुत्योः' अस्मिन् रूपे दत्तः अस्ति । अतः वन्द्-धातोः 'वदि' इयम् औपदेशिक-अवस्था । । 'वन्द्' इति औपदेशिक-अवस्था न । तथैव, कृ-धातुः 'डुकृञ् करणे' अनेन प्रकारेण दत्तः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः औपदेशिक-अवस्था । 'कृ' इति औपदेशिक-अवस्था न । औपदेशिक-अवस्थायाम् यदि धातोः आदौ णकारः अस्ति, तर्हि तस्य <<णो नः>> 6.1.65 इत्यनेन नकारादेशः भवति । एतादृशः यः नकारः, तस्यैव वर्तमानसूत्रेण णत्वं भवति, अन्यस्य नकारस्य न - इत्यर्थः । यथा - 1. 'नी' धातोः औपदेशिकं रूपमस्ति 'णीञ् प्रापणे' । अत्र औपदेशिकावस्थायां धातौ णकारः अस्ति अतः 'परा + नी' इत्यत्र वर्तमानसूत्रेण नकारस्य णत्वं कृत्वा 'पराणयति' इति रूपं सिद्ध्यति । 2. 'नम्' धातोः औपदेशिकं रूपम् 'णमँ' इति अस्ति । अत्रापि औपदेशिकावस्थायां धातौ णकारः अस्ति । अतः प्र + नम् इत्यत्र नकारस्य णकारं कृत्वा प्रणमतीति रूपं सिद्ध्यति । यदि धातौ औपदेशिक-अवस्थायाम् णकारः नास्ति, तर्हि वर्तमानसूत्रेण णत्वं न विधीयते । यथा - 'नर्द्' धातोः औपदेशिकं रूपम् 'नर्दँ' इति अस्ति । अत्र औपदेशिकावस्थायां धातौ णकारः नास्ति । अतः प्र + नर्द् इत्यत्र नकारस्य णकारं न भवति । अतः प्रनर्दतीति रूपं सिद्ध्यति । सूत्रेऽस्मिन् 'असमासेऽपि' इति किमर्थमुक्तम्? अस्मिन् सूत्रे आचार्येण 'पूर्वपदात्' इत्यस्य अनुवृत्तिः कृता अस्ति । सामान्यरूपेण 'पूर्वपद' अयं शब्दः समासस्य विषये प्रयुज्यते । परन्तु अत्र अस्य शब्दस्य प्रयोगः केवलं उपसर्गं निर्देशितुम् कृतः अस्ति, समस्तपदम् न । एतत् स्पष्टीकर्तुमत्र 'असमासेऽपि' इति प्रयुक्तमस्ति । ज्ञातव्यम् - यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञाम् स्वीकुर्वन्ति, तत्रैव अनेन सूत्रेण णत्वं विधीयते, अन्यत्र न । यथा - 'प्रनायक' इत्यत्र 'प्र' इत्यस्य उपसर्गसंज्ञा न भवति, अतः वर्तमानसूत्रेण अत्र णत्वं न विधीयते ।

Balamanorama

Up

<<उपसर्गादसमासेऽपि णोपदेशस्य>> - ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह — उपसर्गात् ।रषाभ्यां नो णः॑इत्यधिकृतम् । तदाह — उपसर्गस्थादिति ।समासेऽङ्गुले सङ्गः॑इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम् । तथा सतिप्रणाम॑इत्यादौ समासे न स्यादित्यपिग्रहणं । तदाह — समासेऽसमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः । प्रणिनदतीति । नेर्ददेति णत्वम् । न चात्रउपसर्गादसमास॑इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्भिन्नेन व्यवधानात् । अर्देति ।उपधायां चे॑त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः ।

Padamanjari

Up

ण उपदेशे यस्य स णोपदेशः । प्रनायको देश इति । अत्र गतिक्रियायोगमात्रमेव प्रति प्रस्योपसर्गत्वम्, न नमतिं प्रति । असमासेऽपीति किमिति । विशेषानुपादानादेव समासासमासयोर्द्वयोरपि भविष्यतिति प्रश्नः । पूर्वपदाधिकारादिति । सर्वत्रैवात्र प्रकरणे'पूर्वपदात्' इति वर्तते, समासे एव पूर्वपदं भवति, तेन समास एव स्यात् । तदधिकारनिवृत्तिद्योतनार्थमिति । नानेन विस्पष्टार्थमसमासेऽपिग्रहणमिच्युते । तथा हि - यद्यप्यस्वरितत्वात्'पूर्वपदात्' इति निवर्तते, तथाप्यसमासेऽपिग्रहणं कर्तव्यम्, अन्यथाऽसंज्ञायां समासे न स्यात्; पूर्वपदात्संज्ञायामेवेति नियमादस्य च विधेरसमासे चरितार्थत्वात् । तस्मात्पूर्वपदाधिकारनिवृत्तिद्योतनमुखेन समासासमासयोर्द्वयोरपि यथा स्यादित्यसमासेऽपिग्रहणमित्ययमर्थो द्रष्टव्यः । नन्वसिद्धमुपसर्गणत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति, तेन'पूर्वपदात्' इत्यस्मिन्निवृते न कर्तव्यमसमासेऽपिग्रहणम् ? एवं तर्ह्येतज्ज्ञापयति - न योगे योगोऽसिद्धः, अपि तु प्रकरणे प्रकरणमसिद्धमिति । यदा तु'पूर्वपदात्संज्ञायाम्' इति सूत्रं नियमार्थमिति पक्षः, तदैतदुच्यते । यदा तु विध्यर्थ तदा नैतदुपपद्यते ॥