1-4-64 भूषणे अलम् आ कडारात् एका सञ्ज्ञा निपाताः गतिः
"भूषणम्" अस्मिन् अर्थे प्रयुक्तः "अलम्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति ।
अलमिति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे चेति विशेषणमुपादीयते। भूषणे योऽलंशब्दः स गतिसंज्ञो भवति। अलंकृत्य। अलं॑कृतम्। यद॑लंक॒रोति॑। भूषण इति किम्? अलं भुक्त्वौदनं गतः॥
अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम् - <{SK763}> इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं पञ्चमं सूत्रम् । अनेन सूत्रेण
<<भूषणेऽलम्>> - भूषणेऽलम् । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञ्विषयेति । कृञ्योग एव भवतीत्यर्थः । वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता । अत एवअलं भुक्त्वा ओदनं गत॑ इति वृत्तिकृता प्रत्युदाहृतम् ।
अलमिति प्रतिषेध इत्यादि। तद्यथा अलं - कृत्वा, अलं भोक्तुम्, अलं भुङ्क्ते, अलं करोति कन्यामिति॥