उपान्वध्याङ्वसः

1-4-48 उपान्वध्याङ्वसः आ कडारात् एका सञ्ज्ञा कारके आधारः कर्म

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

उप + वस्, अनु + वस्, अधि + वस्, आङ् + वस् - एतेषां यः आधारः, तत् कारकं कर्मसंज्ञकः भवति । यथा - हरिः वैकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति ।

Kashika

Up

उप अनु अधि आङ्इत्येवंपूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममुपवसति सेना। पर्वतमुपवसति। ग्राममनुवसति। ग्राममधिवसति। ग्राममावसति॥ वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः॥ ग्राम उपवसति। भोजननिवृत्तिं करोतीत्यर्थः॥

Siddhanta Kaumudi

Up

उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥<!अभुक्त्यर्थस्य न !> (वार्तिकम्) ॥ वने उपवसति ॥ ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वार्तिकम्) ॥उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥<!अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि !> (वार्तिकम्) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । <<उप>>, <<अनु>>, <<अधि>> तथा <<आङ्>> इत्येतेषु कश्चन उपसर्गः यदा <<वस् (निवासे)>> <{1.1160}> इत्येतेन सह प्रयुज्यते, तदा आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । एतेषाम् उपसर्गाणां प्रयोगेण धातोः अर्थे विशेषं परिवर्तनं न भवति, परन्तु आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा तु अवश्यं सिद्धयति । यथा, हरिः वैकुण्ठम् उपवसति, हरिः वैकुण्ठम् अनुवसति, हरिः वैकुण्ठम् अधिवसति, तथा च हरिः वैकुण्ठम् आवसति । सर्वेषाम् अपि अर्थः "हरिः वैकुण्ठे वसति" इत्येव अस्ति । एवमेव, सेना ग्रामम् उपवसति / अनुवसति / अधिवसति / आवसति इत्येते प्रयोगाः अपि सिद्ध्यन्ति । 1. धातुपाठे चत्वारः भिन्नाः <<वस्>> इत्याख्याः धातवः सन्ति । एतेषु केवलं भ्वादिगणस्य<<वस् (निवासे)>> <{1.1160}> इत्यस्यैव ग्रहणं अस्मिन् सूत्रे कृतम् अस्ति, अन्येषां त्रयाणां न । 2. प्रकृतसूत्रेण निर्दिष्टा कर्मसंज्ञा केवलम् <<उप>> / <<अनु>> / <<अधि>> / <<आङ्>> - इत्येतत्पूर्वस्य <<वस्>>-धातोः विषये एव प्रवर्तते । उपसर्गं विना प्रयुक्तः <<वस् निवासे>> इति धातुः तु अकर्मकः एव अस्ति ।अतः तस्य प्रयोगे आधारस्य अधिकरणसंज्ञा एव भवति । यथा - ग्रामे वसति वार्त्तिकम् - <! अभुक्त्यर्थस्य न !> <<उप + वस्>> इत्यस्य अर्थः यदा "भोजनपरित्यागं करोति / किमपि न खादति" (to fast) इत्यस्मिन् अर्थे क्रियते, तदा आधारस्य प्रकृतसूत्रेण कर्मसंज्ञा न भवति । यथा, वने उपवसति (वने स्थित्वा किमपि न भुङ्क्ते) इत्यत्र <<उप + वस्>> इत्यस्य अर्थः "वसति" इति नास्ति अपितु "भोजनं न करोति" इति अस्ति, अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन अधिकरणसंज्ञा एव भवति । बाध्यबाधकभावः <<उप + वस्>>, <<अनु + वस्>>, <<अधि + वस्>>, <<आङ् + वस्>> - एतेषां विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयतेसिद्धान्तकौमुद्यां दत्ते अन्ये द्वे वार्त्तिके सिद्धान्तकौमुद्यां प्रकृतसूत्रे <! अभुक्त्यर्थस्य न !> इत्येत् वार्त्तिकं विहाय अन्ये अपि द्वे वार्त्तिके दत्ते स्तः । वस्तुतः एते वार्त्तिके कर्मसंज्ञाविशिष्टे न, अपितु द्वितीयाविभक्तेः विषये स्तः । काशिकायां, भाष्ये च एते द्वे अपि वार्त्तिके <<कर्मणि द्वितीया>> 2.3.2 इत्यत्र पाठिते स्तः । परन्तु कौमुदीकारः प्रसङ्गवशात् एते अत्रैव पाठयति । एतयोः विवरणम् एतादृशम् -

  • 1. (अन्वयः - उभ-सर्व-तसोः, धिक्, उपरि-आदिषु त्रिषु आम्रेडितान्तेषु द्वितीया कार्या । ततः अन्यत्र अपि दृश्यते ।) उभयतः, सर्वतः, धिक्, उपर्युपरि, अध्यधि, अधोधः - एतेषाम् षण्णाम् शब्दानां योगे द्वितीया विभक्तिः भवति । अपि च, एतान् विहाय अन्येषाम् अपि केषाञ्चन योगे द्वितीया विभक्तिः भवति । क्रमेण उदाहरणानि एतानि -
  • i. उभयतः (on two sides) - कृष्णं उभयतः गोपाः तिष्ठन्ति । कृष्णस्य वामे दक्षिणे च गोपाः सन्ति - इत्याशयः ।
  • ii. परितः (on all sides) - कृष्णं सर्वतः गोपाः तिष्ठन्ति iii. धिक् (निन्दा, निर्भत्सनम्, expressing displeasure) - धिक् कृष्णाभक्तम् । यः कृष्णस्य भक्तः न, सः निन्द्यः - इत्याशयः ।
  • iv. उपर्युपरि (ऊर्ध्वदिशि समीपे, Closer in upward direction) - लोकम् उपर्युपरि हरिः । हरिः लोकस्य अपेक्षया उपरि समीपे एव वसति - इत्याशयः । उपर्युपरि इत्यत्र <<उपर्यध्यधसः सामीप्ये>> 8.1.7 इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । एतादृशे द्वित्वे कृते उपरि-उपरि इति स्थिते एताभ्यां द्वाभ्यां यः द्वितीयः उपरि शब्दः, तस्य <<तस्य परमाम्रेडितम्>> 8.1.2 इत्यनेन आम्रेडितसंज्ञा भवति । अस्य आम्रेडितसंज्ञकस्य योगे, इत्युक्ते कृतद्वित्वस्य विषये एव द्वितीया भवति (इत्युक्ते, द्वित्वं विना केवलम् उपरि शब्दः प्रयुज्यते चेत् द्वितीया न भवति) इति स्पष्टीकर्तुमेव अस्मिन् वार्त्तिके "आम्रेडित" इति शब्दः स्थापितः वर्तते ।
  • v. अध्यधि (आधारेण समीपे, supported by in proximity) -लोकम् अध्यधि हरिः । हरिः लोकस्य आधारेण, तत्समीपे एव वसति - इत्याशयः । अध्यधि इत्यत्र <<उपर्यध्यधसः सामीप्ये>> 8.1.7 इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । अस्य कृतद्वित्वस्य विषये एव इदं वार्त्तिकं प्रवर्तते ।
  • vi. अधोधः (अधोदिशि समीपे, Closer in the downward direction) - लोकम् अधोऽधः नागाः । नागाः लोकस्य अधः, तत्समीपे एव वसन्ति - इत्याशयः । अधोऽधः इत्यत्र <<उपर्यध्यधसः सामीप्ये>> 8.1.7 इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । अस्य कृतद्वित्वस्य विषये एव इदं वार्त्तिकं प्रवर्तते । एतेषाम् षण्णाम् उपपदानां योगे तु अत्र द्वितीया भवत्येव, परन्तु एतान् विहाय केषाञ्चन अन्येषां योगे अपि द्वितीया सम्भवति, इति स्पष्टीकर्तुम् अस्मिन् वार्त्तिके "ततोऽन्यत्रापि दृश्यते" इति निर्देशः कृतः अस्ति । एते अन्ये शब्दाः के के इति अग्रिमेण वार्त्तिकेन स्पष्टी भवति ।
  • 2. अभितः, परितः, समया, निकषा, हा, प्रति - एतेषां षण्णाम् योगे अपि द्वितीया विभक्तिः भवति । क्रमेण उदाहरणानि एतानि -
  • i. अभितः (सर्वासु दिक्षु, in all directions) - कृष्णं अभितः गोपाः तिष्ठन्ति
  • ii. परितः (सर्वासु दिक्षु, in all directions) - कृष्णं परितः गोपाः तिष्ठन्ति
  • iii. समया (समीपे, closeby) - ग्रामं समया मन्दिरम् । ग्रामस्य समीपे एव मन्दिरं वर्तते - इत्याशयः ।
  • iv. निकषा (समीपे, closeby) - ग्रामं निकषा मन्दिरम् । ग्रामस्य समीपे एव मन्दिरं वर्तते - इत्याशयः ।
  • v. हा (दुःखप्रदर्शनम्, to express grief)- हा देवदत्तं कृष्णाभक्तम् । देवदत्तः कृष्णस्य भक्तः नास्ति इति दुःखस्य विषयः - इत्याशयः ।
  • vi. प्रति (उपसर्गसंज्ञकः) - अस्य एकमेव उदाहरणं लभ्यते - बुभुक्षितं न प्रतिभाति किञ्चित् । यः बुभुक्षितः अस्ति, सः कस्यापि विषयस्य सम्यक् चिन्तनं नैव कर्तुं शक्नोति - इत्याशयः । यदि अत्र वार्त्तिके प्रति इति पदं न स्यात्, तर्हि अत्र "बुभुक्षितस्य न प्रतिभाति" इति शेषषष्ठ्या प्रयोगः अभविष्यत् । "देवदत्तः ग्रामं प्रति गच्छति" इत्यादिषु वाक्येषु विद्यमानः <<प्रति>> इति शब्दः भिन्नः अस्ति । तस्य कर्मप्रवचनीयसंज्ञा भवति तथा च <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन तस्य योगे विद्यमानस्य ग्रामइत्यादिशब्दस्य द्वितीया विधीयते । अत्र वार्त्तिके निर्दिष्टः <<प्रति>> इति शब्दः कर्मप्रवचनीयसंज्ञकः नास्ति, अपितु उपसर्गसंज्ञकः अस्ति । अस्य एकमेव उदाहरणं व्याख्यानेषु दत्तं वर्तते यत् उपरि निर्दिष्टम् अस्ति । ##Balamanorama <<उपान्वध्याङ्वसः>> - उपान्वध्याङ्वसः । उप अनु अधि अङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः । तदाह — उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गा आधारत्वद्योतकाः । अत्रवसेरश्यर्थस्य प्रतिषेधः॑ इति वार्तिकम् । तत्राऽर्थशब्दो निवृत्तिवचनः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः । भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् ।तदेतदर्थतः । सङ्गृह्णाति — अभुक्त्यर्थस्य नेति । उभसर्वतसोरिति । वार्तिकम् । उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या ।प्रकृतिवदनुकरणमि॑त्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेनउपर्यध्यधसः सामीप्ये॑ इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम् । तदन्तेषु । कृतद्विर्वचनेष्विति यावत् । तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः । उभयतः कृष्णं गोपा इति । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । आद्यादित्वात्तसिः ।उभयोऽन्यत्रे॑त्ययच् । षष्ठर्थे द्वितीया । सर्वतः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः । धिक्कृष्णाभक्तमिति । धिक्-निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः ।धिङ्मूर्खे॑त्यत्र तुनषिद्धाचरण॑मित्यध्याहार्यम् । उपर्युपरीति ।उपर्यध्यधसः सामीप्ये॑ इति द्विर्वचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः । अध्यधीति । लोकस्य समीपदेसे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः ।अबितः परित इति ।ततोऽन्यत्रापि दृश्यते॑ इत्यस्य प्रपञ्चोऽयम् ।योगेऽपी॑त्यनन्तरंद्वितीये॑ति शेषः । अभितः कृष्णमिति । 'गोपा' इति शेषः । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः ।पर्यभिभ्यां चे॑ति तसिल् । ग्रां समया निकषेति । 'समया' 'निकषा' इति च आकारान्ते अव्यये ।ग्राम॑मित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः । 'निकषाऽन्तिके' 'समयाऽन्तिकमध्ययोः' इति चामरः । विलङ्घ्य लङ्कां निकषा हनिष्यती॑ति माघः । हा कृष्णाभक्तमिति । 'हा' इत्याकारान्तमव्ययं खेदे ।हा विषादशुगार्तिषु॑ इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति — बुभुक्षितमिति । क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः ।भा दी#उतौ॑ । इह तु उपसर्दबलात्स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवंचकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यनेन गतार्थत्वं न भवति । ##Padamanjari वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठयौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा - शीङेऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य - ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति - विशिष्टाधारावस्थितत्वेन निश्चिते देवदते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते - ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति॥