अभिनिविशश्च
1-4-47 अभिनिविशः च आ कडारात् एका सञ्ज्ञा कारके आधारः कर्म
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
"अभि + नि + विश्" इति धातोः यः आधारः, तत् कारकं कर्मसंज्ञं भवति । यथा - सन्मार्गम् अभिनिविशते ।
Kashika
Up
अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममभिनिविशते। कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशत इति? अन्यतरस्यामिति वर्तते,<<परिक्रयणे संप्रदानमन्यतरस्याम्>> १.४.४४ इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते॥
Siddhanta Kaumudi
Up
अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् <{SK580}> इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । अनेन सूत्रेण <<अभि>> तथा <<नि>> इति उपसर्गद्वयात् परस्य <<विश् (प्रवेशने)>> <{6.160}> इति धातोः आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । यद्यपि केवलस्य <<विश्>>-धातोः अर्थः "प्रवेशनम्" इति अस्ति, तथापि <<अभि + नि>> इति उपसर्गद्वयस्य युगपत् योजनेन अस्य अर्थः परिवर्त्य आसक्तः भवति, निश्चिनोति इति भवति । एतादृशे अर्थे जाते, आसक्तेः / निश्चयस्य यः आधारः, तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । यथा, सन्मार्गम् अभिनिविशते । सन्मार्गस्य विषये आसक्तः भवति, सन्मार्गवर्तनस्य निश्चयं करोति इति अस्य अर्थः ।
अभि + नि इत्येतयोः युगपत् उपस्थितिः
प्रकृतसूत्रस्य प्रयोगः तदा एव भवति यदा <<अभि>> तथा <<नि>> इत्येतयोः उपसर्गयोः
युगपत्, अनेनैव क्रमेण <<विश्>>-धातुना सह प्रयोगः भवति । इत्युक्ते, <<अभि + नि + विश्>> इत्यस्यैव विषये प्रकृतसूत्रं प्रवर्तते, न हि केवलम् "अभि + विश्" उत केवलं "नि + विश्" इत्यस्य विषये । पाणिनिमहर्षिभिः
अभिनिविश इति यः शब्दः प्रकृतसूत्रे प्रयुक्तः अस्ति, सः एव अस्य ज्ञापकरूपेण स्वीक्रियते ।
अभिनिविश इत्यत्र <<अभि>> तथा <<नि>> इत्येतयोः द्वन्द्वसमासः वर्तते । अस्मिन् द्वन्द्वसमासे <<अल्पाच्तरम्>>
2.2.34 इति सूत्रम् अनुसृत्य <<नि>> इत्यस्य ग्रहणम् वस्तुतः <<अभि>> इत्यस्मात् पूर्वं भवेत् । इत्युक्ते, सूत्रम् वस्तुतः "न्यभिविशश्च" इत्येव उचिततरम्, अल्पाक्षरतरं च । तथापि पाणिनिमहर्षिभिः "अभिनिविशश्च" इति दीर्घं सूत्रं यत् क्रियते, तद् अस्यैव प्रमाणरूपेण स्वीक्रियते यत् आचार्याः अत्र <<अभि + नि>> इत्येतयोः युगपत् प्रयोगम् एव इच्छन्ति ।
अभिनिविशते इति आत्मनेपदे एव
यद्यपि <<विश्>>-धातुः परस्मैपदी अस्ति, तथापि <<नेर्विशः>>
1.3.17 इत्यनेन <<नि>>-उपसर्गपूर्वकः <<विश्>>-धातुः केवलम् आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति । इदानीम् <<अभि + नि + विश्>> इत्यत्र <<नि>>-उपसर्गपूर्वकः <<विश्>>-धातुः अस्त्येव, अतः अत्रापि केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।
अन्यतरस्याम् इति व्यवस्थितविभाषा-आश्रयणात् कुत्रचित् कर्मसंज्ञा न
यद्यपि प्रकृतसूत्रेण <<अभि + नि + विश्>> इत्यस्य प्रयोगे आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा उक्ता अस्ति, तथापि
केषुचन उदाहरणेषु <<अभि + नि + विश्>> इत्यस्य आधारस्य अधिकरणसंज्ञा एव कृता दृश्यते । यथा -
कल्याणे अभिनिवेशः,
पापे अभिनिवेशः इत्यादिकाः प्रयोगाः लोके प्रसिद्धाः सन्ति । ईदृशाम् प्रयोगाणां साधुत्वज्ञापनार्थम् <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>>
1.4.44 इत्यस्मात्
अन्यतरस्याम् इत्यस्य पदस्य प्रकृतसूत्रे
मण्डूकप्लुत्या अनुवृत्तिं कृत्वा तस्य अर्थः
व्यवस्थितविभाषा इति क्रियते । अनेन प्रकारेण अत्र व्यवस्थितविभाषया
कल्याणे अभिनिवेशः,
पापे अभिनिवेशः इत्यादीनां प्रयोगाणां अपि साधुत्वं सिद्ध्यति, तथा च मूलसूत्रस्य आधारेण
सन्मार्गम् अभिनिविशते इत्यादयः प्रयोगाः अपि साधयितुम् शक्यन्ते ।
व्यवस्थितविभाषा इत्युक्ते "व्यवस्थां ज्ञापयितुम्" (इत्युक्ते प्रयोगाणां साधुत्वज्ञापनार्थम्) स्वीकृता विभाषा । यद्यपि इयं "विभाषा" नाम्ना ज्ञायते, तथापि अत्र विकल्पः वक्तुः इच्छाम् नैव अनुसरति, अपितु केवलम् उपलब्धान् प्रयोगान् अनुसरति । एतादृशी व्यवस्थिताविभाषा अन्यतरस्याम् ग्रहणेन प्रकृतसूत्रे स्वीकृता अस्ति, येन सप्तमीघटिताः प्रयोगाः अपि साधयितुम् शक्यन्ते ।
प्रकृतसूत्रस्य आवश्यकता
उपसर्गं विना प्रयुक्तस्य <<विश्>>-धातोः विषये आधारसंज्ञकस्य (यथा
ग्राम-इत्यादि पदार्थस्य) <<आधारोऽधिकरणम्>>
1.4.45 इत्यनेन अधिकरणसंज्ञायां प्राप्तायाम्, परत्वात् तां बाधित्वा <<कर्तुरीप्सिततमं कर्म>>
1.4.49 इत्यनेन कर्मसंज्ञा विधीयते, यतोऽहि आधारसंज्ञकः
ग्राम-इत्यादि पदार्थः कर्तुः ईप्सिततमः अपि अस्ति । इत्युक्ते, उपसर्ग-भिन्न-विश्-धातोः विषये विप्रतिषेधेनैव आधारस्य कर्मसंज्ञा सिद्धा अस्ति । परन्तु <<अभि + नि + विश्>> इत्यस्य प्रयोगे
आधारसंज्ञकस्य सन्मार्गपदार्थस्य <<कर्तुरीप्सिततमं कर्म>> 1.4.49 इत्यनेन कर्मसंज्ञा नैव सम्भवति यतः अयं सन्मार्गपदार्थः अत्र न हि कर्तुः ईप्सिततमः वर्तते । (
सन्मागस्य आसक्तिः /
सन्मार्गस्य निश्चयः इति कर्तुः ईप्सिततमम् अस्ति, न हि केवलं सन्मार्गः - इत्याशयः) । अस्यां स्थितौ <<अभि + नि + विश्>> इत्यस्य प्रयोगे सन्मार्गादिपदार्थस्य अन्यसूत्रैः अप्राप्ताम् कर्मसंज्ञां विधातुम् प्रकृतसूत्रम् निर्मितम् अस्ति ।
बाध्यबाधकभावः
"अभि + नि + विश्" इत्यस्य विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>>
1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।
Balamanorama
Up
<<अभिनिविशश्च>> - अभिनिविशश्च । आधार इति कर्मेति चानुवर्तते । अभिनीति सङ्घातग्रहणम् । तदाह — अभिनीत्येतदिति । अभिनिविशते सन्मार्गमिति । आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति 'पापेऽभिनिवेश' इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह — परिक्रयणे इति । 'परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः । तर्हिअभिनिविशते सन्मार्ग॑मित्यत्रापि विकल्पः स्यादित्यत आह — व्यवस्थितेति ।ननुपरिक्रयणे संप्रदानमन्यतरस्याम्,आधारोऽधिकरणम्,॒अधिशीङ्स्थासां कर्म॑, 'अभिनिविशश्च' इति सूत्रक्रमः । तत्रअभिनिविशश्चे॑त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्'अधिशीङ्स्थासां कर्म॑ इत्यत्र च तदनुवृत्तेरभावादित्यत आह — मण्डूकप्लुत्येति ।तुल्य॑मिति शेषः । मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् ।
Padamanjari
Up
नेरल्पाच्तरस्यापूर्वनिपाताद् ठभिनिऽ इति समुदायानुकरणमित्याह - अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्॥