अनुदात्तङित आत्मनेपदम्

1-3-12 अनुदात्तङितः आत्मनेपदम् धातवः

Sampurna sutra

Up

अनुदात्तङितः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

यस्मिन् धातौ (1) ङकारः , उत (2) अनुदात्तः स्वरः - इत्संज्ञकः अस्ति, तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

A verb that contains (a) इत्संज्ञक ङकारः, or (b) an इत्संज्ञक अनुदात्त स्वर gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

अविशेषेण धातोरात्मनेपदं परस्मैपदं च विधास्यते, तत्रायं नियमः क्रियते। अनुदात्तेतो ये धातवो ङितश्च तेभ्य एवात्मनेपदं भवति नान्येभ्यः। अनुदात्तेद्भ्यः — आस् — आस्ते। वस् — वस्ते। ङिद्भ्यः खल्वपि — षूङ् — सूते। शीङ् — शेते॥

Siddhanta Kaumudi

Up

अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥

Neelesh Sanskrit Detailed

Up

<<तङानावात्मनेपदम्>> 1.4.100 इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति । यस्मिन् धातौ (अ) अनुदात्तस्वरः इत्संज्ञकः अस्ति, अथवा (आ) ङकारः इत्संज्ञकः अस्ति, तस्मात् धातोः परः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - 1) 'एधँ वृद्धौ' अस्मिन् धातौ धकारोत्तरः अकारः अनुदात्तः अस्ति, <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यनेन च इत्संज्ञकः अपि अस्ति । अतः अस्मात् परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - एधते, एधेते, एधन्ते । 2) 'शीङ्' अस्मिन् धातौ ङकारः <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञकः अस्ति, अतः अस्मातः परः अपि आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - शेते, शयाते, शेरते । एतादृशाः धातवः, येभ्यः परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते, ते 'आत्मनेपदिनः धातवः' इति नाम्ना ज्ञायन्ते ।

Balamanorama

Up

Padamanjari

Up

अविशेषेणेत्यादि। लस्य तिबादयः,'लटः शतृशानचौ' 'लिटः कानज्वा' 'क्वसुश्च' 'लृटःद्वा' इत्यात्मनेपदपरस्मैपदयोर्विहित्वादापादपरिसमाप्तेर्नियमार्थं प्रकरणमित्यर्थः । एकवाक्यतया विधावितरेतराश्रयणप्रसङ्गः। स्यादेतत् - यथा'बहुषु बहुवचनम्' 'कर्मणि द्वितीया' ठ्ङ्याप्प्रातिपदिकात्ऽइत्येतैरेकवाक्यभूतैः स्वादीनां विशिष्टविधिः, एवमनेन प्रकारेण लस्य तिबादय इत्यादिभिश्च तिङमपि विशिष्टविधिरस्तु इति, यद्येवम्; आत्मनेपदपरस्मैपदसंज्ञाभ्यां तिबादीनां विधिः, विहितानां च संज्ञाभ्यां भाव्यमितीतरेतराश्रयं प्राप्नोति। स्वरूपेण विशिष्टविधौशत्रादिष्वतिप्रसङ्गः। स्यान्मतम्-लस्य तिप्तस्झिसिप्थस्थमिप्वस्मम् लस्य तिबादयो भवन्ति, ततः ठनुपरभ्यांकृञःऽ-कर्तर्यनुपूर्वात् करोतेः परस्य लस्य तिबादयो भवन्ति। किमर्थमिदम्?'गन्धनावक्षेपणस्वरितञितः' इति वक्ष्यति, तिद्वाधनार्थं कर्तृग्रहणम्;ठ्भावकर्मेणोःऽ इति वक्ष्यमाणस्य तङे बाधो मा भूदिति । एवम् ठभिप्रत्यतिभ्यः क्षिपःऽ इत्यादि'लुटि च क्लुपः' इत्येवमन्तं कृत्वा ततः ठनुदातङ्तिस्तातांझथासाथान्ध्वमिड्वहिमहिङ्ऽ, अनुदातङ्तिः परस्य लस्य तादयो भवन्ति, तिबादीनामपवादः, ततो'भावकर्मणोः' इत्यादि,'विभाषोपपदेन प्रतीयमाने' इत्येवमन्तं करिष्यते, तत्रायमप्यर्थः-आत्यनेपदग्रहणं शेषग्रहणं परस्मैपदग्रहणं च न कर्तव्यं भवति। एवमपि प्रकरणान्तरावस्थितानां शत्रादीनां नियमो न स्याद्, अतो न स्वरूपेण विशिष्टविधिर्युक्तः। संज्ञाश्रयणे तु यत्रैत्संज्ञकयोर्विधानं तत्र सर्वत्रोपस्थानान्नायं दोषः, किं त्वितरेतराश्रयः प्राप्नोति। यदि त्वस्य सूत्रस्य शाटकंवयेतिवद् भाविनी संज्ञा विज्ञायेत, ततो नेतरेतराश्रयं लाघवं प्रति न कश्चिद्विशेष इति किं मुधा भाविसंज्ञाश्रयणखेदेनेति भिन्नवाक्यतया नियमपक्ष एवाश्रितो वृत्तिकारेण। यद्येवम्, विकरणव्यवधाने नियमाप्रसङ्गः, लिङ्लिट्श्नम्श्लुलुक्षु वचनानुबन्धयोरर्थत्वाद् । इह हि विकरणानामवकाशः- अलादेशाश्चानशादयः;नियमस्यावकाशः,यत्र विकरणा न सन्ति-स्पर्द्धिषीष्ट, पस्पर्द्धे, आस्ते, शेते, अरर्ति,जुहोति, भिनति, भूयदित्यादि;एधते, कुरुते, निविशते इत्यादावुभयप्रसङ्गे परत्वाद्विकरणेषु कृतेषु तैर्व्यवधानान्नियमो न स्याद्। असति नियमे, यदि तावत् प्रकृतिनियमोऽनुदातङ्दाइदिभ्य आत्मनेपदमेव, शेषाद्धातोः परस्मैपदमेवेति,ततोऽस्मिन् विषये उभयप्रसङ्गः;प्रत्ययनियमेऽपि तुल्यजातीयस्य नियमेन व्यावृत्तिरिति धातोरनन्तरस्य लस्य यद्यात्मनेपदपरस्मैपदे भवतः, अनुदातङ्च्छेषानिन्तरमेवेत्येवं नियमो विज्ञायमानो धात्वन्तरादेव व्यावर्तयेदिति विकरणव्यवधाने नियमाप्रवृतावुभयप्रसङ्ग एव। एकवाक्यतया विधाने तु नायं दोषः, विहितेषु लादेशेषु सार्वधातुकापेक्षैर्विकरणैर्भाव्यम्, विधानं चानेन प्रकरणेन सहेति नेतः प्राग्विकरणसम्भवः। स्यादयो लावस्थायां विधीयमाना अपि लकारविशेषापेक्षत्वद्बहिरङ्गा इति लमात्रापेक्षेष्वन्तरङ्गेष्वादेशेषु कृतेष्वेव भविष्यन्तीति न तत्रापि दोषः। ज्ञापकात् सिद्धम्, यदयं'वृद्भ्यः स्यसनोः' इति स्ये विकल्पं शास्ति, तज्ज्ञापयति-विकरणेभ्यो नियमो बलीयानिति। एतेनैतदपि निरस्तम्-चङ्ङ्भ्यामात्मनेपदप्रसङ्ग इति, कथम्?पूर्वनियमे प्रवृते पश्चात् चङ्ङै भवत इति। प्रत्येकमिच्छब्दस्यान्वय इत्याह-अनुदातेत इति। ये धातवो ङ्तिश्चेति। समुदायसम्बन्धे तु चक्षिङ् एव स्यात्;स ह्यनुदातेन पठ।ल्ते, विचक्षण इत्यत्र युज्यथा स्याद्। ञकारस्त्वनुदातेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वज्ञापनार्थः, तेन ठेवायं नागः सहति कलभेभ्यः परिभवम्ऽ'न सहामि साहसमसाहसिकि' इत्यादि सिद्धम्। धातव इत्येतत् कुतो लभ्यते? केचिधुः-ठ्भूवादयो धातवःऽ इत्यतो धातुग्रहणमनुवर्तते, तच्च ठनुदातङ्तिःऽ इत्यनेन सामानाधिकरण्यात् पञ्चम्या विपरिणम्यते, अत एव चङ्ङ्भ्यामात्मनेपदं न भवतीति। यङ्न्तादपि तर्हि न प्राप्नोति बेभिद्यत इति, यणेóव ह्यत्र ङ्द्, नि तदन्तो धातुः, अवयवे चाचरितार्थं लिङ्गं समुदायस्य विशेषकं भवति, तस्मदिह धातोरिति नानुवर्त्यम्। प्रायोवृता तु वृतौ धतव इत्युक्तम्। चङ्ङेस्तु परिहार उक्त एव। यद्ययं प्रकृतिनियमः स्याद् अनुदातङ्ति आत्मनेपदमेवेति, तृजादयो न स्युः?वचनाद् भविष्यन्ति। अस्ति वचनस्यावकाशः-परस्मैपदिनः,तत्रापि नियमः-शेषात् परस्मैपदमेवेति, तेन वचनाद् भविष्यन्ति। तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयः? आत्मनेपदस्य परस्मैपदम्, तस्य च तत्। एवमपि'शेषात् कर्तरि' इति शेषग्रहणं न कर्तव्यं प्रकृतिनियमपक्षे, कथम्? प्रकृतयो नियताः, आत्मनेपदं परस्मैपदं चानियतम्, ततो वक्ष्यामि-परस्मैपदमिति, तन्नियमार्थं भविष्यति-यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेवेति। प्रत्ययनियमस्तु नान्तरेण शेषग्रहणं शक्यो विज्ञातुमिति शेषग्रहणं कुर्वतः सूत्रकारस्य स एवाभिप्रेत इत्याह-तेभ्य आत्मनेपदं भवति, नान्येभ्य इति । यदि प्रत्ययनियमोऽयम्?'शेषात् कर्तरि परस्मैपदम्' इत्यत्र यदि तावदेवं नियमः-कर्तरि यदि भवति शेषदेवेति, ततोऽशेषत् कर्तरि मा भूद्, भावकर्मणोस्तु शेषाच्च परस्मैपदं प्राप्नोति। अथ शेषाद्यदि भवति कर्तर्येवेति? ततः शेषाद् भावकर्मणोर्मा भूद्, अशेषातु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति। न चैकस्मिन्वाक्ये नियमद्वयं शक्यं विज्ञातुम्-शेषादेव भवति, तत्रापि कर्तर्येवेति । एवं तर्हि योगविभागेन नियमद्वयं तत्रैव साधयिष्यामः। आस्त इत्यादि। ठास उपवेशनेऽ 'वस आच्छादने' 'षूङ् प्राणिप्रसवे' ,शीङ्स्वप्नेअदादयः।'शीङ्ः सार्वधातुके गुणः' ॥