2-4-44 आत्मनेपदेषु अन्यतरस्याम् आर्धधातुके हनः वध लुङि
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति — आहत, आहसाताम्, आहसत॥
हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥
आत्मनेपदेष्वन्यतरस्याम्॥ आहसतेति। ठाङे यमहनःऽ इत्यात्मनेपदम्। ठात्मनेपदेष्वनतः,'हनः सिच्' इति सिचः कित्वात् ठनुदातोपदेशऽ इत्यनुनासिकलोपः॥