प्राणिस्थादातो लजन्यतरस्याम्

5-2-96 प्राणिस्थात् आतः लच् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तद् अस्य, अस्मिन् अस्तीति' (इति) प्राणिस्थात् आतः अन्यतरस्याम् लच्, मतुँप्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्राणिनामङ्गवाचिभ्यः आकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन लच्-प्रत्ययः भवति, पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।

Kashika

Up

प्राणिस्थवाचिनः शब्दादाकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थादिति किम् ? शिखावान् प्रदीपः। आदिति किम्? हस्तवान्। पादवान्॥ प्राण्यङ्गादिति वक्तव्यम्॥ इह मा भूत् — चिकीर्षास्यास्ति चिकीर्षावान्, जिहीर्षास्यास्ति जिहीर्षावान्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूडालोऽस्तीत्यत्र <<स्वरितो वानुदात्ते पदादौ>> ८.२.६ इति स्वरितबाधनार्थः॥

Siddhanta Kaumudi

Up

चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥<!प्राण्यङ्गादेव !> (वार्तिकम्) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ <{SK3659}> इति स्वरितबाधनार्थश्चकारः ॥

Laghu Siddhanta Kaumudi

Up

चूडालः। चूडावान्। प्राणिस्थात्किम्? शिखावान् दीपः। प्राण्यङ्गादेव। मेधावान्॥

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; ये आकारान्ताः शब्दाः प्राणिस्थवाचकाः सन्ति (= प्राणिनामवयवस्य निर्देशं कुर्वन्ति) तेभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव । यथा - 1. चूडा (apex / crest / crown of head) अस्य अस्ति सः = चूडा + लच् → चूडालः (कश्चन पक्षी यस्य मस्तिष्के चूडा अस्ति । white cockato इति) । पक्षे मतुँप्-प्रत्यये कृते <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> 8.2.9 इत्यनेन मकारस्य वकारादेशं कृत्वा चूडावान् इत्यपि सिद्ध्यति । 2. कर्णिका (specific type of long ears) अस्य अस्ति सः कर्णिकालः कर्णिकावान् वा शृगालः । विशेषः - 1. अस्मिन् सूत्रे 'प्राणिस्थ' इति उच्यते । अस्य शब्दस्य अर्थः 'प्राणिषु तिष्ठति तत्' इति भवति । अतः 'प्राणिषु विद्यमाना चिकीर्षा, इच्छा, माया, मेधा' - एतेषाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः उद्भवति । परन्तु अस्य सूत्रस्य प्रयोगः केवलम् 'प्राणिनामङ्गवाचिभ्यः शब्देभ्यः' एव क्रियते, चिकीर्षादिभ्यः अन्येभ्यः शब्देभ्यः न । अस्य स्पष्टीकरणार्थमेव वार्त्तिककारः वदति - <!प्राण्यङ्गात् इति वक्तव्यम्!> । अङ्गवाचिभ्यः शब्देभ्यः एव प्रत्ययः विधीयते, इति अस्य वार्त्तिकस्य आशयः । अतः 'चिकीर्षा, इच्छा, माया, मेधा' - एतादृशानां शब्दानां विषये केवलम् मतुँप्-प्रत्ययः एव भवति । यथा - चिकीर्षावान्, मेधावान् - आदयः । 2. अस्य सूत्रस्य प्रसक्तिः आकारान्तशब्दानाम् विषये एव अस्ति - इति स्मर्तव्यम् । अतएव 'हस्त', 'दन्त', 'पाद' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण लच्-प्रत्ययः न भवति । 3. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् '<<तद्धितस्य>> 6.1.164 इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'चुडाल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि <<आद्युदात्तश्च>> 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु 'चूडालोऽस्ति' एतादृशेषु वाक्येषु अयमुदात्तस्वरः उत्तरपदस्य अनुदात्तस्वरेण सह एकादेशं कृत्वा <<स्वरितो वाऽनुदात्ते पदादौ>> 8.2.6 इत्यनेन विकल्पेन स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति । 4. लच्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - चूडाला, कर्णिकाला ।

Balamanorama

Up

<<प्राणिस्थादातो लजन्यतरस्याम्>> - प्राणिस्थात् । आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह — प्रत्ययस्वरेणेति । चूडालोऽसीति । तत्र असीत्येतत् 'तिङ्ङतिङः' इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्यएकादेश उदात्तेने॑त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात्स्वरितो वाऽनुदात्ते॑ इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः ।

Padamanjari

Up