तत्पुरुषः समानाधिकरणः कर्मधारयः

1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः

Kashika

Up

index: 1.2.42 sutra: तत्पुरुषः समानाधिकरणः कर्मधारयः


तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दोऽभिधेयवाचि। समानाधिकरणः समानाभिधेयः। परमराज्यम्। उत्तमराज्यम्। अकर्मधारये राज्यम् 6.2.130 इत्युत्तरपदाऽद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुषः इति किम्? पाचिकाभार्यः। समानाधिकरणः इति किम्? ब्राह्मणराज्यम्। कर्मधारयप्रदेशाः कर्मधारयेऽनिष्ठा 6.2.46 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.2.42 sutra: तत्पुरुषः समानाधिकरणः कर्मधारयः


Balamanorama

Up

index: 1.2.42 sutra: तत्पुरुषः समानाधिकरणः कर्मधारयः


तत्पुरुषः समानाधिकरणः कर्मधारयः - अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह — तत्पुरुषः समाना । समानम्-एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच् । समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः ।

Padamanjari

Up

index: 1.2.42 sutra: तत्पुरुषः समानाधिकरणः कर्मधारयः


अत्र ऽतत्पुरुषःऽ ऽसमानाधिकरणःऽ इति द्वयोरपि पदयोर्मुख्यार्थत्वे ब्राह्मणराज्यं शोभनमित्यादौ यत्र बाह्यएन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैव संज्ञा स्याद्, न तु परमराज्यमित्यादौ; शब्दान्तरस्याप्रयोगादित्यन्यतरद्गोणार्थमिति स्थिते कामचाराद्यदि तत्पुरुषशब्दो गौणः स्यात् तत्पुरुषार्थानि पदानि समानाधिकरणानीति, ततः सहग्रहणाभावात् प्रत्यकं संज्ञा इति शङ्क्येत, अतस्तत्पुरुष इति पदं मुख्यार्थमित्याह-तत्पुष इति । समासविशेषस्येत्यादि । इतरद्गौणार्थमित्याह-समानाधिकरणपद इति । समानाधिकरणानि पदान्याश्रयत्वेन यस्य सन्ति स तथोक्तः; अवयवद्वारकं सामानाधिकरण्यमौपचारिकमपि पदान्तनिरपेक्षमन्तरङ्गमिति तदेवाश्रीयत इति भावः । भवति ह्यवयवधर्मेण समुदायस्य व्यपदेशः, यथा-समं चूर्णमिति । अत्र ह्यवयवद्वारकं चूर्णस्य साम्यम्, न तु कृत्स्नस्य चूर्णस्यान्येन । परमराज्यमिति, अकर्मधारयेराज्यम् इत्यत्राकर्मधारय इति निषेधादुतरपदाद्यौदातत्वाभावे समासान्तोदातमेव भवति । पाचकवृन्दारिकेति । ऽन कोपधायाःऽ इति प्रतिषेधं बाधित्वा ऽपुंवत्कर्मधारयऽ इति पुंवद्भावो भवति । तत्पुरुष इति किमिति । प्रतिपदोक्तत्वादधिकारावगतेर्वा समानाधिकरणाधिकारविहितस्तपुरुष एव प्रतिपत्स्यत इति प्रश्नः । पाचिकाभार्य इति । अयमेवार्थो दुरवधार इति भावः । ब्राह्मणराज्यमिति । अत्रोतरपदाद्यौदातत्वमेव भवति । अथ ऽपूर्वकालैकऽ इत्यस्य प्रकरणस्यान्ते ऽकर्मधारयऽ इति कस्मान्नोक्तम्, योऽयं समानाधिकरणाधिकारविहितस्तत्पुरुषः स कर्मधारय इति, एवं हि ऽतत्पुरुषः समानाधिकरणऽ इति न वक्तव्यं भवति ? सत्यम्; एकसंज्ञाधिकारातु कर्मधारसंज्ञया तत्पुरुषसंज्ञाया बाधः स्यादिति द्विगोरिव पुनस्तत्पुरुषसंज्ञाविधानाय कर्मधारयपदमुपादेयम् । पुनश्च पर्यायप्रसङ्गे समावेशाय चकारोऽपि वक्तव्यः नन्वेवं करिष्यते-द्विगुकर्मधारयौ चेति ? एवं तु न कृतमित्येव ॥