1-2-40 उदात्तस्वरितपरस्य सन्नतरः अनुदात्तानाम्
index: 1.2.40 sutra: उदात्तस्वरितपरस्य सन्नतरः
अनुदात्तग्रहणमनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः स्वरितः परो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततरः इत्यर्थः। देवा मरुतः पृश्निमातरोऽपः। मातरः इत्यनुदात्तः। अपः इत्यन्तौदात्तः ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः 6.1.171 इति। तत्र अनुदात्तयोरेकादेश ओकारोऽनुदात्तः तस्यौदात्ते परभूते सन्नतर आदेशो भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। इकारोऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान् न निहन्यते, अनुदात्तं सर्वमपादादौ 8.1.18 इति। तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वतीति इकारस्य सन्नतर आदेशो भवति। माणवक जटिलकाद्यापक क्व गमिष्यसि। क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति।
index: 1.2.40 sutra: उदात्तस्वरितपरस्य सन्नतरः
उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् <{SK83}> ।
index: 1.2.40 sutra: उदात्तस्वरितपरस्य सन्नतरः
परशब्दः प्रत्येकमभिसम्बध्यत इत्याह - उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह - अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥