विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्

2-4-12 विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् एकवचनम् द्वन्द्वः च

Kashika

Up

index: 2.4.12 sutra: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्


वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषाम् द्वन्द्वो विभाषा एकवद् भवति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्ववडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वाप्रे। अधरोत्तरम्, अधरोत्तरे। बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्। एषां बहुप्रकृतिरेव द्वन्द्व एकवद् भवति, न द्विप्रकृतिः। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रोधौ। रुरुपृषतौ। हंसचक्रवाकौ। यूकालिक्षे व्रीहियवौ। कुशकाशौ।

Siddhanta Kaumudi

Up

index: 2.4.12 sutra: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्


वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ।<!फलसेनाङ्वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् !> (वार्तिकम्) ॥ बदराणि चामलकानि च बदरामलकम् । जातिरप्राणिनाम् <{SK910}> इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । विभाषावृक्ष - <{SK916}> इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम् <{SK910}> इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् पूर्ववदश्ववडवौ <{SK813}> इति स्यात् ॥

Balamanorama

Up

index: 2.4.12 sutra: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्


विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् - विभाषा वक्ष । द्वन्द्व॑ इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदाद्भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः — वृक्षादीनां द्वन्द्व॑ इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । अआबहबादियुगलत्रयस्य त्वभेदेनान्वयः-॒अआवडव॑, 'पूर्वापर,'अधरोत्तरे॑त्यात्मको द्वन्द्व॑ इति । तदाह — वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवाचिनां, तृणविशेषवाचिनां, धान्यविसेषवाचिनां पशिविशेषवाचिनां चेत्यर्थः ।स्वं रूप॑मिति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथा च वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किं तुजातिरप्राणिना॑मिति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति — प्लक्षेति । प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति — रुरुपृषतमिति । रुरवश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति — कुशेति । कुशास्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति — व्रीहिति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरचि — दधीति । दधि च घृतं चेति विग्रहः । पसुद्वन्द्वमुदाहरति-गोमहिषमिति । गावस्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति — शुकेति । शुकाश्च बकाश्चेति विग्रहः । अआवडवादिद्वन्द्वमुदाहरति-अआवडवमिति । अआआश्च वडवाश्चेति विग्रहः । 'पूर्वपदआवडवौ' इति अआवडवादित्यत्र पूर्वपदवत्पुंलिङ्गता । फलसेनेति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । द्वन्द्वश्च प्राणी॑त्यादिसूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एरवद्भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति — बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् ।सुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वात्जातिरप्राणिना॑मित्येकवत्त्वमित्यर्थः ।बहुप्रकृतिरेवे॑त्यस्य प्रयोजनमाह — नेहेति । बदरामलके इति । बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाऽभावान्नजातिरप्राणिना॑मित्येकवत्त्वम् । रतिकाआआरोहाविति । अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपिविभाषा वृक्षे॑त्येकवत्त्वं न । इत्यादीति । रुरुपृषतौ ।अत्र मृगद्वन्द्वत्वेऽपि नैकत्त्वम् । हंसचक्रवाकौ । अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूकालिक्षे । अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ । अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशौ । अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु 'चार्थे द्वन्द्वः' इत्यनेन#एतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात्विभाषा वृक्षे॑ति सूत्रंव्यर्थंमित्याशङ्क्याह — विभाषेत्यादि, विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतमित्येतेषुजातिरप्राणिना॑मिति नित्यविहितैकवत्त्वाऽनित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः । नन्वेवमपि पशुग्रहणं व्यर्थं, तदुदाहरणेगोमहिष॑मित्यत्रजातिरप्राणिना॑मिति नित्यैकवत्त्वनियमस्याऽप्राप्त्या तन्निवृत्त्यर्थत्वाऽयोगादित्यत आह — पशुग्रहणं हस्त्यआआदिषु सेनाङ्गत्वान्नित्यं प्राप्ते इति ।विकल्पार्थ॑मित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थं, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौजातिप्राणिना॑मित्येकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाऽभावेन 'चार्थे द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेरित्यत आह — मृगाणां मृगौरेवेत्यादि, मृगशकुनिग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह उभयत्र=इतरेतरयोगे समाहारे चचार्थे॑इति द्वन्द्वः । यथा — शुकबकं, शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यता — रुरुशुका इति । एतादृशनियमार्थं मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणमधरोत्तरग्रहणं च व्यर्थंसचार्थे॑इत्येव सिद्धेः ।जातिरप्राणिना॑मित्यादिनित्यैकवत्त्वस्य तत्राऽप्रवृत्त्या तन्निवृत्त्यर्थत्वाऽसंभवादित्यत आह — एवं पूर्वापरमधरोत्तरमित्यपीति । यथा मृगशकुनिग्रहणं मृगैर#एव मृगाणां, शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र=इतरेतरयोगे समाहारे च द्वन्द्वः, अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोगे एवेति नियमार्थं पूर्वापरग्रहणमधरोत्तरग्रहणं चेत्यर्थः । नन्वआवडवग्रहणं व्यर्थं, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह — अआवडवेति । नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेरिदमेकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम् । तथा च पशुद्वन्द्वत्वादेकवत्त्वविकल्पे सति समाहारे वा, इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवंच समाहारद्वन्दवपक्षेस नपुंसक॑मिति नपुंसकत्वम्, इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वादआवडवग्रहणं व्यर्थमेवेत्यत आह — अन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपिस नपुंसक॑मिति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्वपदस्ववडवौ' इह पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात्समाहारद्वन्द्वपक्षे 'पूर्वपदआवडवौ' इत्येतद्बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदओत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः ।

Padamanjari

Up

index: 2.4.12 sutra: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्


विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतरणाम्॥ अत्र वृभादिभिः प्रत्येकं द्वन्द्वे विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सहप्रयोगः, एकशेषात्। न च पर्यायाणामपि सहयोगः, विरूपाणामपि समानार्थानाम्ऽ एकशेषवचनात्, नापि विशेषेण सहप्रयोगः - वृक्षश्च धवश्चेति, वृक्षशब्देनैवाशेषविशेषाक्षेपाद्धवादिशब्दप्रयोगस्य निष्फलत्वात्। कथं तर्हि'गोबलीवदाê' इत्यादौ सामान्यविशेषयोः सह प्रयोगः? बलीवर्दशब्दसंनिधौ गोशब्दस्य स्त्रीगवीष्वेव वृतेर्द्धयोरपि विशेषवचनत्वादिति चेद्, इहापि तर्हि धवपदसंनिधौ वृक्षशब्दस्य तद्व्यतिरिक्तविषयतया द्वन्द्वप्रसङ्गः? किं च वाक्येऽपि कथं सहप्रयोगः - ब्राह्मणा आगता वसिष्ठोऽप्यागत इति ? प्रादान्यख्यापनार्थमुक्तार्थस्यापि प्रयोग इति चेद्, द्वन्द्वेऽपि तर्हि प्राप्नोति। तस्मानदनभिधानमेवाश्रयणीयम्, न हि वृक्षधवमिति लोकेऽभिधानमस्ति, अतो वृक्षविशेषवाचिनां ग्राहणम्। एवं मृगादिष्वपि द्रष्टव्यम्। इत्येतेषां द्वन्द्व इति। एतेषामित्येकापि षष्ठी विषयभेदाद्भिद्यते - वृक्षादीञ्च्छकुनिपर्यन्तान्प्रत्यवयवषष्ठी, अश्ववडवादीन् प्रति निर्द्धारणषष्ठी। येऽत्राप्राणिनस्तेषां'जातिरप्राणिनाम्' इति नित्यं समाहारद्वन्द्वे प्राप्ते उभयत्र विधीयते । यो विभाषाप्राप्तैकवचनो द्वन्द्वः स एषां भवतीति वचनव्यक्त्याश्रयणेन तेषामेव वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यो विकल्पितो वा एकवद्भावो भवति - व्रीहिकुशप्लक्षमिति,'जातिरप्राणिनाम्' इति नित्यः, प्लक्षशब्दस्पर्शा इत्यत्राद्रव्यवाचित्वात्ठ्जातिरप्राणिनाम्ऽ इत्यस्याप्रवृतौ'चार्थे द्वन्द्वः' इत्युभयत्र प्राप्तो भवति। पशुग्रहणं हस्त्यश्वादिषु परत्वात् सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम्। मृगशकुनिग्रहणं किमर्थम्, न ह्यएतेषामनेन प्रकरणेन नित्य एकवद्भावः प्राप्तः, यद्वाधनाय विकल्पोऽभ्यनुज्ञायते, अन्यत्र प्राप्त्यभावादेषामुभयत्रैव द्वन्द्व इति नियमो न सम्भवति? अथैषामेवोभयत्र द्वन्द्व इति नियमः स्यात्, क्व तर्ह्येषां स्यात्? क्वचिदिति चेत्, यद्येवम्,'चार्थे द्वन्द्वः' इति सामान्यलक्षणमनवकाशस्यात्, विषिष्टविधानमेव तदानीमाश्रयणीयं स्यात् प्राण्यङ्गादीनां समाहारे दधिपयाअदीनामितरेतरयोगे वृक्षादीनामुभयत्रेति? अथैषामेवोभयत्रेत्यनेनान्येषामुभयत्रापि द्वन्द्वो वार्यते, अन्यतरत्र तु भवत्येव। एवमपि क्वान्यत्रेति न ज्ञायते,'सर्वो द्वन्द्वो विभाषयैकवद्भवति' इति चानुपपन्नं स्यात्? उच्यते - यतुल्यजातीयानामेवायं विकल्पस्तत्रैव नियमः प्रवर्तते - मृगविशेषवाचिनां मृगविशेषवाचिभिरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहान्यतरत्रेति। नन्वेमपि न ज्ञायते - क्वान्यतरत्रेति, स्यादेतद् एवम्, यद्यौभयत्रैषां द्वन्द्व इति श्रुतं स्यात्। इह तु विभाषैकवचनो द्वन्द्व इति श्रूयते, ततश्च यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषवाचिनां मृगविशेषवाचिभिरेव नान्यैरिति वचनव्यक्तौ व्यक्तमेव ज्ञायते - अन्यैः सहेतरएतरयोगद्वन्द्व इति। अथास्यां वचनव्यक्तौ विभाषाग्रहणं किमर्थम्, यावता विभाषैवैकवचनान्तो द्वन्द्वः प्राप्तस्तत्रैतावदेवास्तु - य एकवचनो द्वन्द्वः स एषामेभिरेवेति ? उच्यते - असति विभाषाग्रहणे वचनव्यक्त्यन्तरमपि सम्भाव्येत - एषामेभिः सहैकवचन एव द्वन्द्व इति, यथा प्राण्यङ्गदिषु। सति तु तस्य नियमस्यासम्भवादभिमतो नियमः संपद्यते। एवं पूर्वापरम्, अधरोतरमित्यत्रापि नियमस्वरूपं विज्ञेयम्।'पशुद्वन्द्व' इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्। तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे'पूर्ववदश्वडवौ' इत्येतद्वाधित्वा'स नपुंसकम्' इत्येतदेव भवति, तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति।'पूर्ववदश्ववडवौ' इत्येततु एकवद्भावाभावपक्षे प्रवर्तते - अश्वडवौ, अश्ववडवान् इति। एतदेवाभिप्रेत्य वृत्तिकारस्तत्र वक्ष्यति - अश्ववडवयोर्विभाषैकवद्भाव उक्त इत्यादि। बहुप्रकृतिरिति। बहवो बहुत्वसंख्यायुक्ता वर्तिपदार्थाः प्रकृतिः कारणं यस्य द्वन्द्वार्थस्य स बहुप्रकृतिः, तदर्थाभिधायित्वाद् द्वन्द्वोऽपि बहुप्रकृतिः। नेदं स्वतन्त्रं लक्षणम्, स्वातन्त्र्ये नित्यं चेद्वनस्पत्यादीनामपि एतत्सूत्रविहितं विकल्पं बाधित्वा बहुप्रकृतित्वे नित्य एकवद्भावः स्यात्, विकल्पे फलादीनामपि'जातिरप्राणिनाम्' इत्यादिलक्षणान्तरेण प्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतित्वे विकल्पः स्यात्। अतो लक्षणान्तरस्य शेषोऽयम्। तत्रापि यदि'विभाषा वृक्ष' इत्यत्र पठितत्वादस्यैव शेषत्वं स्याततो वनस्पत्यादिष्वबहुप्रकृतित्वे एवद्विकल्पाभावेऽपि'जातिरप्राणिनाम्' इति नित्यो विधिः स्यात्, फलादिषु तु न दोषः; एतद्विकल्पप्राप्त्यभावाल्लक्षणान्तरप्राप्तेरेव नियमनात् तस्मात्सर्वस्यैव प्रकरणस्यार्थशेषस्तदेतदाह - एषां बहुप्रकृतिरेवेति। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवैकवद्भवतीत्यर्थः। बदरामलके इति। अत्र'जातिरप्राणिनाम्' इति न भवति। रथिकाश्वारोहाविति। अत्र सेनाङ्गलक्षणः। प्लक्षन्यग्रोधाविति। अत्रायं विकल्पः,'जातिरप्राणिनाम्' नित्यश्च न भवति। अवनस्पतीनां तु वृक्षिविशेषाणामबुहुप्रकृतित्वेऽप्ययं विकल्पो भवत्येव - आम्रपलाशम्, आम्रपलाशौ। अन्ये तु वनस्पतिग्रहणं वृक्षमात्रोपलक्षणं मन्यन्ते। रुरुपृषतौ, हंसचक्रवाकाविति। अत्राप्यस्य विकल्पस्याभावः। यूकालिक्षे इति।'क्षुद्रजन्तवः' इत्यस्याभावः। व्रीहियवौ, कुशकाशावित्यत्र तूभयोः॥