स्वे पुषः

3-4-40 स्वे पुषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करण इत्येव। स्व इत्यर्थग्रहणम्। स्ववाचिनि करण उपपदे पुषेर्धातोर्णमुल् प्रत्ययो भवति। आत्मात्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्॥

Siddhanta Kaumudi

Up

करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥