सभा राजामनुष्यपूर्वा

2-4-23 सभा राजामनुष्यपूर्वा स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः

Kashika

Up

index: 2.4.23 sutra: सभा राजामनुष्यपूर्वा


सभान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुस्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्मान् न भवति, राजसभा? पर्यायवचनस्य एव इष्यते। तदुक्तम् जित्पर्यायस्य एव राजाध्यर्थम् इति। अमनुष्यपूर्वा रक्षःसभम्। पिशाचसभम्। इह कस्मान् न भवति, काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण् रक्षःपिशाचादिष्वेव वर्तते। राजा अमनुष्यपूर्वा इति किम्? देवदत्तसभा।

Siddhanta Kaumudi

Up

index: 2.4.23 sutra: सभा राजामनुष्यपूर्वा


राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ।<!पर्यायस्यैवेष्यते !> (वार्तिकम्) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥

Balamanorama

Up

index: 2.4.23 sutra: सभा राजामनुष्यपूर्वा


सभा राजाऽमनुष्यपूर्वा - सभा । राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविदिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह — राजपर्यायपूर्व इति । इनसभम् ईआरसभमिति । इनस्य ईआरस्य वा सभेति विग्रहः । इनेस्वरशब्दौ राजपर्यायाविति भावः ।पर्यायमात्रग्रहणे प्रमाणं दर्शयति — पर्यायस्यैवेष्यत इति ।भाष्यकृते॑ति शेषः ।स्वं रूप॑मिति सूत्रेजित्पर्यायवचनस्यैव राजाद्यर्थ॑मिति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति । 'चन्द्रगुप्त' इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह — अमनुष्यशब्दो रूढएति । असुरशब्दो दैत्यानिवेति भावः ।

Padamanjari

Up

index: 2.4.23 sutra: सभा राजामनुष्यपूर्वा


सभा राजामनुष्यपूर्वा॥ इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति।'स्वं रूपम्' इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति - तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ - अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि ठमनुष्यकर्तृके चऽ इत्यत्र पितघ्नं घृतमित्युदाहरिष्यते? व्याख्यानातत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः॥