6-1-199 पथिमथोः सर्वनामस्थाने उदात्तः आदि
पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः सर्वनामस्थाने परत आदिरुदात्तो भवति। पन्थाः॑, पन्था॑नौ, पन्था॑नः। मन्थाः॑, मन्था॑नौ, मन्था॑नः। सर्वनामस्थान इति किम् ? प॒थः पश्य। म॒थः पश्य। उदात्तनिवृत्तिस्वरेणान्तोदात्तो भवति। प्रत्ययलक्षणमत्रापि नेष्यते। प॒थिपि्॑रय इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्तः पथिशब्दः॥
आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ॥
पथिमथिशब्दावित्यादि।'गमेरिनिः' ,'पुषः कित्' ,'मन्थः' ,'पतेस्थ च' इतीनिप्रत्ययः, मन्थः कित्वादुपधालोपः - पन्थाः, मन्था इति।'पथिमथ्यृभुक्षामात्' इत्यादिकार्यम् । पथः पश्येति। भस्य टेर्लोपः। प्रत्ययलक्षणमत्रापि नेष्यते। अतिप्रसङ्गस्तु पूर्ववत् ॥