1-1-16 सम्बुद्धौ शाकल्यस्य इतौ अनार्षे प्रगृह्यम् ओत्
शाकल्यस्य (मतेन) सम्बुद्धौ ओत् अनार्षे इतौ प्रगृह्यम्
सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।
According to Shakalya, the ओकार at end of the सम्बोधन-एकवचन form, when followed by the word 'इति' in a non vedic context, gets the term प्रगृह्य.
ओदिति वर्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, इति शब्देऽनार्षेऽवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। संबुद्धाविति किम् ? गवित्ययमाह। अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र। अनार्ष इति किम्? एता गा ब्रह्मबन्ध इत्यब्रवीत् (काठ०सं० १०.६)॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् षष्ठं सूत्रम् । सम्बोधन-एकवचनस्य रूपाणाम् अन्ते विद्यमानस्य ओकारस्य लौकिकसंस्कृते 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते । संस्कृते उकारान्तशब्दानाम् सम्बोधनस्य एकवचनस्य रूपाणि एव ओकारान्तानि सन्ति । यथा - धेनो, साधो, भानो - आदयः । एतेषाम् परः यदा 'इति' अयम् शब्दः प्रयुज्यते, तदा शाकल्यमुनेः मतेन एतेषाम् अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा भवति । यथा, 'भानो इति', 'धेनो इति', 'विष्णो इति' एतादृशेषु उदाहरणेषु सम्बुद्धि-एकवचनस्य रूपाणाम् अन्ते विद्यमानः ओकारः शाकल्यमतेन प्रगृह्यसंज्ञकः ज्ञेयः, अतः तन्मतेन एतेषु उदाहरणेषु <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन प्रकृतिभावे प्राप्ते, अच्सन्धिः न विधीयते ।
<<सम्बुद्धौ शाकल्यस्येतावनार्षे>> - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुंलिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् ।