याप्ये पाशप्

5-3-47 याप्ये पाशप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.3.47 sutra: याप्ये पाशप्


याप्ये पाशप्

Neelesh Sanskrit Brief

Up

index: 5.3.47 sutra: याप्ये पाशप्


'याप्यः' (कुत्सितः) अस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे 'पाशप्' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.47 sutra: याप्ये पाशप्


याप्यः कुत्सितः इति उच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणः वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरनशास्त्रे प्रवीणो दुःशीलः, तत्र कस्मान् न भवति? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः, तस्य कुत्सायां प्रत्ययः।

Siddhanta Kaumudi

Up

index: 5.3.47 sutra: याप्ये पाशप्


कुत्सितो भिषक् भिषक्पाशः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.47 sutra: याप्ये पाशप्


अनेन सूत्रेण 'पाशप्' इति प्रत्ययः पाठ्यते । यत्र 'याप्यः' (= कुत्सितः / अप्रवीणः / bad) इत्यस्य विशेष्यरूपेण किञ्चन प्रातिपदिकम् प्रयुज्यते, तत्र तस्मात् प्रातिपदिकात् स्वार्थे 'पाशप्' इति प्रत्ययः भवति । अस्मिन् प्रत्यये पकारः इत्संज्ञकः अस्ति, अनुदात्तौ सुप्पितौ 3.1.4 इत्यनेन प्रत्ययस्थ-आकारस्य अनुदात्तस्वरनिर्देशार्थम् च सः अत्र स्थापितः अस्ति ।

उदाहरणम् एतादृशम् -

याप्यः वैयाकरणः (सः वैयाकरणः यः किमपि व्याकरणम् न जानाति । A person who, by degree, is a grammatician, but in reality knows nothing or very little about grammar).

= वैयाकरण + पाशप्

→ वैयाकरणपाश ।

एवमेव - याप्यः नैयायिकः नैयायिकपाशः । याप्यः याज्ञिकः याज्ञिकपाशः । याप्यः भिषग् भिषक्पाशः ( a bad doctor) ।

ज्ञातव्यम् -

  1. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा 'याप्य' इति शब्दः प्रातिपदिकेन निर्दिष्टस्य विषयस्य सन्दर्भे एव विधीयते । इत्युक्ते, यदि कश्चन वैद्यः किमपि वैद्यकार्यम् न जानाति, तर्हि तस्य निर्देशः अत्र 'याप्यः भिषग्' इत्यनेन क्रियते, तथा च अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगं कृत्वा एतादृशस्य वैद्यस्य निर्देशः 'भिषक्पाशः' इत्यनेन अपि भवितुमर्हति । A doctor who does not know anything about his subject - इत्याशयः । परन्तु कश्चन वैद्यः यदि वैद्यकार्ये कुशलः अस्ति, परन्तु स्वभावेन दुःशीलः / कुत्सितः / दुष्टः अस्ति, तर्हि यद्यपि तस्य निर्देशः 'याप्यः भिषग्' इति भवितुमर्हति, तथापि अस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः अत्र 'कुत्सितत्वम्' वैद्यस्य स्वभावस्य विषये अस्ति, न हि 'वैद्य' इत्यनेन निर्दिष्टस्य अर्थस्य (= वैद्यकीयकार्यस्य) विषये ।

  2. पाशप्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।

यथा - याप्या वैयाकरणी (a female, who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). )

= वैयाकरणी + पाशप्

→ वैयाकरण + पाशप् [पुंवद्वावः]

→ वैयाकरणपाश

→ वैयाकरणपाश + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः]

→ वैयाकरणपाशा ।

Balamanorama

Up

index: 5.3.47 sutra: याप्ये पाशप्


याप्ये पाशप् - याप्ये पाशप् । याप्यः=कुत्सितः ।निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः॑ इत्यमरः । कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः । प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम् ।

Padamanjari

Up

index: 5.3.47 sutra: याप्ये पाशप्


याप्यशब्दोऽकयमस्त्यपादानसाधनः - यापिता अस्माद् गुणा इति याप्यःउकुत्सितः, अस्ति कर्मसाधनः-यापयितव्यो याप्यो देशान्तरं प्रापयितव्यः, शरीराद्वाऽपनेतव्यः, अशक्यप्रतीकारो याप्यो व्याधिः। तत्रेहाभिधानशक्तिस्वभावादाद्यस्य ग्रहणमित्याह - याप्यः कुत्सित उच्यत इति। तत्र कस्मान्न भवतीति। व्याकरणे प्रवीणस्यापि दुःशीलत्वेन कुत्सितत्वाद् भवितव्यमेवेति भावः। यस्य गुणस्येति। गुणो विशेषणम्, द्रव्यं विशेष्यम्। तस्य कुत्सायां प्रत्यय इति। एतच्चान्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमितं हि प्रत्यासन्नम्; शब्दवाच्यत्वात्। धर्मान्तरं तु तत्र वस्तुतः सदपि न शब्देन स्पृश्यते। यत्र तु प्रवृत्तितिनिमितस्य कुत्सितं न सम्भवति - असको देवदतक इत्यादौ, तत्र सहचरितगुणक्रियाकुत्साश्रयः प्रत्ययो भवत्येव। एवं च देवदतपाश इत्याद्यपि सत्यभिधाने भवति।'कुत्सिते' इत्यत्रैवायं न विहितः; तिङ्न्तादपि प्रसङ्गात् ॥