ईषदसमाप्तौ कल्पब्देश्यदेशीयरः

5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः

Sampurna sutra

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


ईषद्-असमाप्तौ प्रातिपदिकात् तिङः च कल्पप्-देश्य-देशीयरः

Neelesh Sanskrit Brief

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' प्रत्ययाः विधीयन्ते ।

Kashika

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


सम्पूर्णता पदार्थानां समाप्तिः। स्तोकेनासम्पूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं च एतत्। ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात् प्रातिपदिकात् कल्पप् देश्य देशीयरित्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः। मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः। तिङश्च 5.3.56 इत्येव, पचतिकल्पम्। जल्पतिकल्पम्।

Siddhanta Kaumudi

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥

Neelesh Sanskrit Detailed

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


कस्यचन गुणस्य विषये 'अस्य गुणस्य किञ्चित् न्यूनता विद्यते' इति द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' एते प्रत्ययाः अनेन सूत्रेण विधीयन्ते । उदाहरणानि कानिचन पश्यामः -

  1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'पटु' शब्दात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा (Devadatta is almost an expert, but not completely - इति आशयः) ।

  2. किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'मृदु' शब्दात् एते त्रयः प्रत्ययाः विधीयन्ते । यथा - आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा । This mango is mostly soft, but not completely - इति आशयः ।

  3. कश्चन यज्ञदत्तः बह्वंशरूपेण विद्वत्तां प्राप्तवान्, परन्तु इतोऽपि सम्पूर्णरूपेण विद्वान् नास्ति तस्य निर्देशः 'विद्वत्कल्प', 'विद्वद्देश्य', 'विद्वद्देशीय' इत्यनेन भवति ।

  4. 'देवदत्तः किञ्चित् न्यूनम् पचति' (The cooking skill of Devadatta is a little below the perfection) अस्मिन् सन्दर्भे 'पचति'इत्यस्मात् तिङन्तात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - देवदत्तः पचतिकल्पम् पचतिदेश्यम् पचतिदेशीयम् वा अस्ति । अत्र सर्वत्र तद्धितान्तशब्दः क्रियाप्रधानः अस्ति (= क्रियायाः अर्थे एव प्रयुज्यते) अतः तस्य प्रयोगः क्रियाविशेषणरूपेणैव क्रियते, न हि कर्तुः विशेषणेन । इत्युक्ते, अयम् शब्दः नित्यम् नपुंसकलिङ्गे द्वितीयायाः एकवचने एव प्रयुज्यते । केचन प्रयोगाः एते -

(अ) तौ किञ्चित् न्यूनम् पचतः = तौ पचतःकल्पम् पचतोदेश्यम् पचतोदेशीयम् वा स्तः । अत्र 'पचतः' अस्मात् तिङन्तात् एते त्रयः प्रत्ययाः विधीयन्ते ।

(आ) ते किञ्चित् न्यूनम् पचन्ति = ते पचन्तिकल्पम् पचन्तिदेश्यम् पचन्तिदेशीयम् वा सन्ति ।

(इ) त्वं किञ्चित् न्यूनम् पचसि = त्वम् पचसिकल्पम् पचसिदेश्यम् पचसिदेशीयम् वा असि ।

  1. देवदत्तः पञ्चवर्षकल्पः पञ्चवर्षदेश्यः पञ्चवर्षदेशीयः वा = देवदत्तस्य आयुः पञ्चवर्षात् किञ्चित् न्यूनमस्ति । ईषदूनः पञ्चवर्षः इत्याशयः ।

  2. रघुवंशे - 'प्रभातकल्पा शशिनेव शर्वरी' (३.२) - ईषदूनः प्रभातः इत्याशयः । A little before morning.

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः प्रयुज्यते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति ।

  2. कल्पप्, देश्य, देशीयर् - एतेषु प्रत्ययेषु परेषु स्त्रीवाचकस्य अङ्गस्य तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन पुंवद्भावः भवति । यथा - 'सीता इयम् बह्वंशरूपेण पट्वी, परन्तु न हि सम्पूर्णरूपेण' - अस्मिन् सन्दर्भे 'पट्वी' शब्दात् कल्पप्, देश्य, देशीयर् एतेषु त्रिषु प्रत्ययेषु कृतेषु अङ्गस्य पुंवद्भावः भवति -

पट्वी + कल्पप् / देश्य / देशीयर्

→ पटु + कल्पप् / देश्य / देशीयर् [पुंवद्भावः]

→ पटुकल्प / पटुदेश्य / पटुदेशीय

→ पटुकल्प / पटुदेश्य / पटुदेशीय + टाप् [अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ पटुकल्पा / पटुदेश्या / पटुदेशीया

  1. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'कल्पप्' प्रत्यये परे पुंवद्भावं बाधित्वा घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6.3.43 इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा -

दासी + कल्पप् → दासिकल्पा । (Almost a servant इत्याशयः) ।

'देश्य' / 'देशीयर्' प्रत्यययोः परयोः तु पुंवद्भावः एव भवति । यथा - दासी + देश्य / देशीयर् → दासदेश्या / दासदेशीया ।

Padamanjari

Up

index: 5.3.67 sutra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः


सम्पूर्णतेति। प्रवृत्तिनिमितस्य पौष्कल्यमित्यर्थः। पदार्थशबप्देन पर्यवसानभूमिर्विवक्षिता। प्रकृत्यर्थविशेषणं चैतदिति। न प्रत्ययार्थः। यदि तथा स्याद्, गुडस्येषदसमाप्तिर्द्राक्षाया गुडकल्पा द्रक्षाया इति स्यात्, गुडकल्पा द्राक्षेति द्रव्येण सामानाधिकरण्यं न स्यात्, एकवचनमेव च स्यात्, इष्यते चाभिधेयवल्लिङ्गवचने स्यातामिति। तस्मात्प्रकृत्यर्थंविशेषणम्। स्वार्थ इति। न च कुमारिकल्पेत्यत्राप्यनतिरिक्तं वय इति ङीपः प्रसङ्गः; न हि कल्पबन्तस्य वयःप्रवृत्तिनिमितम्, किं तर्हि? तद्गतेषदसमाप्तिः। ईषदसमाप्तः पटुअः पटुअकल्पः, मृदुकल्प इति। ननु च योऽर्थ एतावानेवेति परिज्ञातः, तस्य समाप्तिर्वा भवत्यसमाप्तिर्वा, न च पाटवादिगुण एतावानिति निर्ज्ञातः, यावतावदपि हि पाटवं भवत्येव, तत् कथमस्येषदसमाप्तिः; एतेन जातिशब्दा व्याख्याताः, न हि तेऽक्तपरिमाणमर्थमाचक्षते ? इदं तु युक्तमुदाहर्तुम् - कृतकल्पम्, भुक्तकल्पमिति। धात्वर्थो हि फलावच्छिन्नो व्यापारनिचयोऽक्तपरिमाणः। नन्वत्रापि भूते क्तः, फलनिष्पतौ च धात्वर्थो भूतो भवति, भूतस्य च तस्य कुत ईषदसमाप्तिः? यदा तहि क्रियैकदेशापवर्गाश्रयो भूते क्तः, तदोदाहरणम् - कृतकल्पं वस्त्रमिति। तथा च कृतादय एकदेशकरणाश्रया प्रयोगा दृश्यन्ते। यदा भविष्यत्कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वात् ठाशंसायां भूतवच्चऽ इति भविष्यति क्तप्रत्ययः, तदापि भवत्युदाहरणम्। एवम्'ञीतः क्तः' ,'मतिबुद्धिपूजार्थेब्यश्च' इति वर्तमानविषयक्तान्तादपि युक्तः प्रत्ययः - पूजितकल्पम्, जातकल्पमिति। तथा तिङ्न्तमपि कालत्रविषयं भवत्युदाहरणम् - पचतिकल्पम्, पक्ष्यतिकल्पम्, अपाक्षीत्कल्पमिति। गुणवचनं त्वयुक्तम्। तदपि युक्तम्, ननु चोक्तं यावतावदपि पाटवं भवत्येव नास्येषदसमाप्तिरिति? नैतदस्ति; लोकत एव गुणस्यापीयताया निर्ज्ञातत्वात्। लोके हि पटुअरयमित्युच्यते, यो लघुनैवोपायेन साद्यार्थान्साधयति। यस्यु न तथा साधयति, किन्त्वीषदूनम्, सा पटुअकल्पः। तद्विपर्ययेण मृदु-मृदुकल्पौ व्याख्यातौ। जातिवचने कथं गुडकल्पा द्रक्षा, तैलकल्पा प्रसन्नेति? उच्यते; गुडगतमाधुर्यश्रयेण द्राक्षायां गुडत्वारोपाद् गुडजात्यभावाच्च ईषदसमाप्तं गुडत्वं द्राक्षायाः। तथा गुडकल्पो गुड इत्यपि भवति। कथं पुनः स एवेषदसमाप्तः सम्भवति? गुणहानेः - यावन्माधुर्यं गुडस्य प्रसिद्धम्, न तावत्पुराणत्वादिदोषोपहतस्य। तेनासावीषदसमाप्तो गुड इत्युच्यते ॥