6-1-137 सम्परिभ्यम् करोतौ भूषणे संहितायाम् सुट्
सम् परि उप इत्येतेभ्यो भूषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्र <<संपुंकानां सत्वम्>> (८.३.५ वा०) इति समो मकारस्य सकारः, पूर्वस्य चाकारस्यानुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् ८.३.७० इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषण इति किम् ? उपकरोति। संपूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नमिति॥
सम्पूर्वस्य क्वचिदभूषणेऽपीष्यत इति। एतच्च'संस्कृतंक भक्षाः' इति निर्देअसाल्लभ्यते ॥