चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः

8-1-57 चनचिदिवगोत्रादितद्धिताम्रेडितेषु अगतेः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.57 sutra: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः


चन चिदिव गोत्रादि तद्धित आम्रेडित इत्येतेषु परतः अगतेः उत्तरं तिङन्तं नानुदात्तं भवति। चन देवदत्तः पचति चन। चित् देवदत्तः पचति चित्। इव देवदत्तः पचतीव। गोत्रादि देवदत्तः पचति गोत्रम्। देवदत्तः पचति ब्रुवम्। देवदत्तः पचति प्रवचनम्। इह अपि गोत्रादयः कुत्सनाभिक्ष्ण्ययोः एव गृह्यन्ते। तद्धित देवदत्तः पचतिकल्पम्। देवदत्तः पचतिरूपम्। अनुदात्तः तद्धित इह उदाहरणम्, अन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते, पचतिदेश्यः। आम्रेडित देवदत्तः पचति पचति। अगतेः इति किम्? देवदत्तः प्रपचति चन। अत्र अगतिग्रहणे, सगतिरपि तिङित्यत्र च उपसर्गग्रहणं द्रष्टव्यम्। इह मा भूत्, शुक्लीकरोति चन। यत् काष्ठं शुक्ली करोति। यत् काष्ठं कृष्णीकरोति।

Siddhanta Kaumudi

Up

index: 8.1.57 sutra: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः


एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ।

Padamanjari

Up

index: 8.1.57 sutra: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः


इहापीति । न केवलं तिङे गोत्रादीनीत्यत्रैवेत्यपिशब्दार्थः । तत्र हेतुस्तत्रैव प्रतिपादितः । शुक्लीकरोति चनेति । अगतेरिति प्रतिषेधाभावादत्र निघातप्रतिषेधो भवत्येव । यत्काष्ठमिति । शुक्लीशब्दस्य निघातो न भवति ॥