8-2-103 स्वरितम् आम्रेडिते असूयासम्मतिकोपकुत्सनेषु पदस्य पूर्वत्र असिद्धम्
स्वरितः प्लुतो भवति आम्रेडिते परतोऽसूयायाम्, संमतौ, कोपे, कुत्सने च गम्यमाने। <<वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु>>८.१.८ इति द्विर्वचनमुक्तम्, तत्रायं प्लुतविधिः। असूयायां तावत् — मा॒ण॒व॒क॑३ माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक रिक्तं त आभिरूप्यम्। संमतौ — मा॒ण॒व॒क॑३, माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक शोभनः खल्वसि। कोपे — मा॒ण॒व॒क॑३ माणवक, अ॒वि॒नी॒त॒क॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने — शा॒क्ती॒क॑३ शाक्तीक, या॒ष्टी॒क॑३ याष्टीक रिक्ता ते शक्तिः॥ असूयादिषु वावचनं कर्तव्यम्॥ माणवक माणवकेत्येवमाद्यपि यथा स्यात्॥
स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ॥
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ वावचनं कर्तव्यमिति।'सर्व एव प्लुतः' इति वचनमन्यदीयमिति वातिंककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत्॥