8-3-49 छन्दसि वा अप्राम्रेडितयोः पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे
छन्दसि विषये विसर्जनीयस्य वा सकारादेशो भवति कुप्वोः परतः प्रशब्दमाम्रेडितं च वर्जयित्वा। अयःपात्रम्, अयस्पा॒त्रम् (शौ०सं० ८.१३.२)। विश्वतः पात्रम्, विश्वतस्पात्रम्। उरु णः कारः, उरु णस्कारः। अप्रामे्रडितयोरिति किम्? अ॒ग्निः प्॑रवि॒द्वान् (शौ०सं० ५.२६.१)। परु॑षः परुषः॒ परि॑ (मा०सं० १३.२०)। सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् (ऋ० १०.१३९.१), स नः॑ पावकः (ऋ० १.१२.१०) इत्येवमादिषु <<सर्वे विधयश्छन्दसि विकल्प्यन्ते>> इति सत्वं न भवति॥
विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ॥
अयस्पात्रमिति । असमासोऽयम् । समासे हिठतः कृकमिऽ इत्यादिना नित्यं सत्वं प्राप्नोति; अस्य विकल्पस्यासिद्धत्वात्, असमासे चास्य विकल्पस्य चरितार्थत्वात् । यदि वा'प्रकरणे प्रकरणमसिद्धम्' इति पक्षे समासेऽप्युदाहरणम्, किन्त्वनेन मुक्ते तेन नित्यं प्राप्नोति, तस्मादसमास एवायम् । समासे तु यदि विकल्पो दृश्यते, स छान्दसत्वेनोपपाद्यः । विश्वतस्पात्रमिति । अत्राव्ययत्वाद् ठतः कृकमिऽ इत्यस्याप्रसङ्गः । उरुणस्कार इति । अस्मदो नसादेशः,'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । कारशब्दो घञन्तः, अत्रासमासत्वादप्रसङ्गः । अग्निः प्रविद्वानिति । अत्र षत्वप्रसङ्गः, उभ्यक्रमे तु सकार आदेश इत्युपलक्षणम् । परुषः परुष इति । वीप्सायां द्विर्वचनम् । अङ्गमङ्गं परुष्यरु, चतुष्यष्पा विशस्ते - इत्यादयस्तु कस्कादिषु द्रष्टव्याः । हरिकेशः पुरस्तादित्यादेरत्रोपयोगं न पश्यामः । कथमत्रैव सूत्रे वाग्रहणात् सत्वषत्वयोर्भावाभावौ प्रतिपादितौ ? किमत्र ?'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इत्यनेन ॥