8-2-95 आम्रेडितं भर्त्सने पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
<<वाक्यादेरामन्त्रितस्य०>> ८.१.८ इति भर्त्सने द्विर्वचनमुक्तम्, तस्याम्रेडितं प्लवते। चौर॑चौ॒र३, वृष॑लवृष॒ल३, दस्यो॑द॒स्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा॥ भर्त्सने पर्यायेणेति वक्तव्यम्॥ चौ॒र३चौ॑र, चौर॑चौ॒र३। तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति॥
दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ॥
उदाहरणेषु'वाक्यादेरामन्त्रितस्य' इत्यादिना द्विर्वचनम् ।'वाक्यस्य टेः' इत्यधिकारेऽप्यत्रानन्त्यस्य भवति; वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात् । तदर्थमिति । पर्यायेण पूर्वोतरयोर्भागयोः प्लुतो यथा स्यादित्येवमर्थम् । द्विरुक्तोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणार्थमित्यर्थः । एतच्चाम्रेडितमात्रस्य भर्त्सने वृत्यसम्भवाल्लभ्यते, पर्यायस्य तु ठेकैकस्यऽ इत्यनुवृतेर्लाभः ॥