8-1-3 अनुदात्तं च सर्वस्य द्वे आम्रेडितम्
index: 8.1.3 sutra: अनुदात्तं च
अनुदात्तं च तद् भवति यदाम्रेडितसंज्ञम्। भुङ्क्ते भुङ्क्ते। पशून् प्शून्।
index: 8.1.3 sutra: अनुदात्तं च
द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ।
index: 8.1.3 sutra: अनुदात्तं च
परमित्यनेन सामानाधिकरण्यातस्य चाज्झल्समुदायरूपत्वादन्यर्थोऽत्रानुदातशब्दः - अविद्यमानमुदातमनुदातमिति । स्वरितेऽप्युदातस्य भावातस्यापि निवृत्तिः । एवमपि न ज्ञायते - केन स्वरेणाम्रेडितं प्रयोक्तव्यमिति ? उच्यते; उदातस्वरितौ तावन्निषिद्धौ, न चास्वरकस्याच उच्चारणं सम्भवति, तत्र पारिशेष्यादनुदातत्वमेव भविष्यति । यद्वा - अनुदाताच्कमनुदातम्, आम्रेडितस्था अचोऽनुदाता भवन्तीत्यर्थः । भुङ्क्तभुङ्क्त इति ।'भुजो' नवनेऽ इत्यात्मनेपदम्, तस्य'तास्यनुदातेत्' इत्यनुदातत्वम्, श्नमः प्रत्ययस्वरः, तस्य'श्नसोरल्लोपः' इत्यल्लोपे उदातनिवृत्तिस्वरेण भुङ्क्तेशब्दोऽन्तोद्रुतिः, द्विर्वचनेन परस्यानुदातत्वम् । पशुशब्दः कुप्रत्ययान्तोऽन्तोदातः ॥