शप्श्यनोर्नित्यम्

7-1-81 शप्श्यनोः नित्यम् इदितः नुम् अभ्यस्तात् शतुः ईनद्योः नुम्

Kashika

Up

index: 7.1.81 sutra: शप्श्यनोर्नित्यम्


शप् श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति। पचन्ती कुले। पचन्ती ब्राह्मणी। दीव्यन्ती कुले। दीव्यन्ती ब्राह्मणी। सीव्यन्ती कुले। सिव्यन्ती ब्राह्नणी। नित्यग्रहणम् वा इत्यस्य अधिकारस्य निवृत्त्यर्थम्। इहारम्भसामर्थ्यान् नित्यमुत्तरत्र विकल्प एव अशङ्क्येत।

Siddhanta Kaumudi

Up

index: 7.1.81 sutra: शप्श्यनोर्नित्यम्


शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् अप्तृन् <{SK277}>इति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । अपो भि <{SK442}> ॥ स्वद्भ्याम् । स्वद्भिः । अर्तिपॄवपि इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्त <{SK317}> इति दीर्घः । नुम्विसर्जनियेति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः <{SK433}> इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥.। इति हलन्तनपुंसकलिङ्गप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 7.1.81 sutra: शप्श्यनोर्नित्यम्


शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्वं नुम् शीनद्योः । पचन्ती । पचन्ति ॥ दीव्यत् । दीव्यन्ती । दीव्यन्ति ॥ धनुः । धनुषी । सान्तेति दीर्घः । नुम्विसर्जनीयेति षः । धनूंषि । धनुषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः ॥ पयः । पयसी । पयांसि । पयसा । पयोभ्याम् ॥ सुपुम् । सुपुंसी । सुपुमांसि ॥ अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥

Padamanjari

Up

index: 7.1.81 sutra: शप्श्यनोर्नित्यम्


इत्येतयोः शतुरिति । एतयोः सम्बनधी यः शता तस्येत्यर्थः, म्बन्धश्च निमितनिमितिभावः । क्वचितु सम्बन्धिन इति पठ।ल्ते । नित्यग्रहणमिति । ननु चारम्भसामर्थ्यादेव नित्यं भविष्यति तत्राह - इहेति ॥