6-4-17 तनोतेः विभाषा न उपधायाः क्वि झलोः क्ङिति सनि
तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलीत्येव — तितनिषति। <<सनीवन्तर्ध०>> ७.२.४९ इत्यत्र तनोतेरुपसंख्यानादिडागमो भवति विकल्पेन॥
अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ।<!आशङ्कायां सन्वक्तव्यः !> (वार्तिकम्) ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥
<<तनोतेर्विभाषा>> - तनोतेर्विभाषा । उपधाया दीर्घ इति । 'नोपधायायाः' इत्यतो 'ढ्रलोपे' इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति ।अज्झने॑त्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । आआ मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः ।तनिपती॑ति इट्पक्षे रूपम् । पतेःसनि इडभावपक्षे त्वाह —