इन्हन्पूषार्यम्णां शौ

6-4-12 इन्हन्पूषार्यम्णां शौ न उपधायाः असम्बुद्धौ

Sampurna sutra

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


इन्-हन्-पूष-अर्यम्णामङ्गस्य असम्बुद्धौ सर्वनामस्थाने उपधायाः दीर्घः शौ

Neelesh Sanskrit Brief

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य केवलं शि-प्रत्यये परे एव उपधादीर्घः भवति, अन्येषु सर्वनामस्थानेषु परेषु न ।

Neelesh English Brief

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


For the words हन्, पूषन् and अर्यमन्, and for also the words that end in 'इन्', the उपधादीर्घ happens only in case of the 'शि' प्रत्यय, and not in case of other सर्वनामस्थानप्रत्ययाः.

Kashika

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


इन् हन् पूषनर्यमनित्येवमन्तानामङ्गानां शौ परत उपधाया दीर्घो भवति। बहुदण्डीनि। बहुच्छत्रीणि। बहुवृत्रहाणि। बहुभ्रूणहानि। बहुपूषाणि। बह्वर्यमाणि। सिद्धे सत्यारम्भो नियमार्थः, इन्हन्पूषार्यम्णामुपधायः शावेव दीर्घो भवति न अन्यत्र। दण्डिनौ। छत्रिणौ। वृत्रहणौ। पूषणौ। अर्यमणौ। दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान्। शौ नियमं पुनरेव विदध्यात् भ्रूणहनीति तथास्य न दुष्येत्। शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य। दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः। सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे। यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम्। हन्तेः अनुनासिकस्य क्विझलोः क्ङिति 2.4.15 इति दीर्घत्वं यत् तदपि नियमेन बाध्यते वृत्रहणि, भ्रूणहनि इति। कथम्? योगविभागः क्रियते। इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव दीर्घो भवति, न अन्यत्र इति। ततः शौ इति द्वितीयो नियमः। शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति। सर्वस्य उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते। यस् तु न उपधालक्षणः स भवत्येव। वृत्रहायते। भ्रूणहायते। अथ व अनुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः। शिशब्दो हि सर्वनामस्थाऽं नपुंसकस्य, न च तस्य अन्यत् सर्वनामस्थानमस्ति इत्यविशेषेण नियमः। तत्र तु नपुंसकस्य इत्येतन् न अश्रीयते। तेन अनपुंसकस्य अपि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्तीति तत्र नियमः क्रियमणो नपुंसकस्य स्यात्।

Siddhanta Kaumudi

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते -

Neelesh Sanskrit Detailed

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा 'इन्' येषामन्ते अस्ति तादृशानाम् शब्दानाम् सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते वर्तमानसूत्रेण केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । इत्युक्ते, शि-प्रत्ययं विहाय अन्येषु सर्वनामस्थानप्रत्ययेषु परेषु अङ्गस्य उपधादीर्घः न भवति ।

यथा - हन्-शब्दस्य प्रथमा-द्विवचनस्य रूपम् 'हनौ' इति भवति, न हि 'हानौ' । तथैव, पूषन् शब्दस्य प्रथमाबहुवचनस्य रूपम् 'पूषणः' इति भवति, न हि पूषाणः । एतेषु रूपेषु 'शि'-प्रत्ययः नास्ति, अतः अत्र सर्वत्र अनेन सूत्रेण उपधादीर्घः निषिध्यते ।

शि-प्रत्ययस्य उदाहरणद्वयम् इदम् -

  1. 'दण्डिन्' (इन्नन्त-नपुंसकलिङ्गशब्दः) इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति 'दण्डीनि' । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य जश्शसोः शिः 7.1.20 इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति ।

  2. 'पूषन्' इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति 'पूषाणि' । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य जश्शसोः शिः 7.1.20 इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति ।

अत्र एकः विशेषः स्मर्तव्यः । <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया अस्मिन् सूत्रे विद्यमानाः 'हन्', 'पूषन्', 'अर्यमन्' एते शब्दाः तदन्तस्य अपि ग्रहणं कुर्वन्ति । अतः 'बहुपूषन्', 'भ्रूणहन्', 'बहुवृत्रहन्', 'बहुभ्रूणहन्', 'बह्वर्यमन्

ज्ञातव्यम् -

  1. अत्र निर्दिष्टः 'हन्' शब्दः प्रातिपदिकमस्ति, धातुः न । 'हन्' धातो' क्विप्' प्रत्ययं कृत्वा 'हन्' इति प्रातिपदिकं जायते ।

  2. <ऽसिद्धे सति आरम्भः नियमार्थःऽ> इति कश्चन सिद्धान्तः अस्ति । यत्र पूर्वसूत्रेणैव सिद्धः विधिः परसूत्रेण पुनः प्रतिपाद्यते, तत्र सः विधिः परसूत्रेण 'नियम्यते' इति ज्ञातव्यम् । यथा - इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे दीर्घः तु सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेनैव विधीयते । वर्तमानसूत्रेण तस्यैव पुनःप्रतिपादनं कृतमस्ति । अतः वर्तमानसूत्रेण 'नियमः' प्रोक्तः अस्ति, इति कथ्यते । इत्युक्ते, इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे 'एव' दीर्घः भवति, न अन्यत्र, इति अस्य अर्थः ।

Balamanorama

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


इन्हन्पूषार्यम्णां शौ - सौ विशेषमाह — इन्हन् । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते । 'नोपधायाः' इत्यत 'उपधाया' इति । तदाह — एषामिति । इन् हन् पूषन् अर्यमन्नित्यन्तानामित्यर्थः । अङ्गविशेषणत्वेन तदन्तविधिः ।सर्वनामस्थाने चे॑ति सिद्धे नियमार्थमित्याह — शावेवेति । नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात्सौ परतः 'सर्वनामस्थाने' इति दीर्घेऽप्राप्ते सतीत्यर्थः ।

Padamanjari

Up

index: 6.4.12 sutra: इन्हन्पूषार्यम्णां शौ


अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्तीति इन्ग्रहणेन तदन्तं गृह्यते । इतरेभ्योऽपि केवलेभ्यः शिर्न सम्भवति, कथम् इन्निति हन्तेः क्विबन्तस्य ग्रहणम्, ब्रहणम्, ब्रह्मद्यौपदाच्च हन्तेः क्विब्विहितः, इतरौ च पुंल्लिङ्गौ, तस्मात्सवैरेव तदन्तविधिविंज्ञायते, इत्याह - इन्हन्पूषन्नर्यमन्नित्येवमन्तानामिति । बहुदण्डीनीति । बैषम्यपरिहारार्थमाद्ययोर्बहुपूर्वयोः । उपन्यासो बहुत्वं च पूषादौ कालभेदतः ॥ इति । इह दण्डीनि ब्राह्मणकुलानि, ब्रह्महाणि ब्राह्मणकुलानि - इत्यन्तरेणापि बहुशब्दभाद्ययोरिन्हन्नित्येतयोरुदाहरणत्वेनोपन्यासः सम्भावतीति चोद्यम्, वैषम्यपरिहारार्थं तु बहुपूर्वयोरुपन्यास इत्युतरम् । वृत्रहा इन्द्रः, स एकः , एवं पूषार्यमणौ, तेषां कथं बहुत्वं विषेषणमिति चोद्यम्, मन्वन्तरादिकालभदेनेन्द्रादयो भिद्यन्ते इत्युत्रम् । यद्वा - बहुषु यज्ञेष्वाहूता इन्द्रादयो यैर्ब्राह्मणकुलैस्तानि तथोच्यन्ते । ननु च सर्वनामस्थाने चासम्बुद्धौ इति दीर्घत्वं सिद्धम्, तत्किमर्थोऽयमारम्भः इत्याह - सिद्धे सत्यारम्भ इति । इन्नादीनामुपधायाः शावेवेति । विपरीतस्तु नियमो न भवति - इन्नादीनामेव शाविति सर्वनामानि तायेकवचनद्विवचनबहुवचनान्येकशः इति निर्देशात् । वृत्रहणाविति । नन्वत्रास्तु सर्वनामस्थाने चासम्बुद्धौ थैति प्राप्तो दीर्घः कस्मान्न भवति, न ह्यसौ तस्य नियमः अप्रकृतत्वादसंशब्दितत्वाच्च सत्यम् नियमविधानसामर्थ्यातु तस्याप्यनेन निवृत्तिः । अस्त्वेवं सर्वनामस्थाने, विभक्त्यन्तरे तु सर्वत्रानुनासिकललक्षणो दीर्घः प्राप्नोति अत आह - दीर्घविधिरिति । य इह शास्त्रे इन्नादीनां दीर्घविधिस्तं विनियम्य - तस्य नियमं कृत्वा, क्व सुटि सर्वनामस्थाने । उपलक्षणमेतत् । तेन शसादेशोऽपि शिर्गृह्यते । इतिशब्दो हेतौ, स च भिन्नक्रमः श्लोकन्ते द्रष्टव्यः । एततः किं कुर्यात् शौ नियमं पुनविंदध्यात् । एवकारो भिन्नक्रमो नेत्यस्यानन्तरं द्रष्टव्यः । एकस्मन्योगे नियमद्वयस्य कर्तुमशक्यात्वाद्योगविभागः कर्तव्य इत्यर्थादुक्तं भवति । इन्हन्पूषार्यम्णाम् इत्येको योगः, सर्वनामस्थाने इति च वर्तते, इन्नादीनां च सर्वनामस्थान एव दीर्घो भवतीत्यर्थः । अत्र हन्व्यतिरिक्तानां ग्रहणमुतरार्थम् । ततः शौ इति द्वितीयो योगः, सर्वनामस्थानेऽपि शावेव न सर्वत्र । ततः सौ चेति सूत्रं एविध्यर्थम् । एवं च योगद्वयं क्रियमाणे च सति यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - भ्रूणहनीति तथास्य न दुष्येदिति । तथेति योगाद्वये सतीत्यर्थः । अस्येति आचार्यस्य । भ्रूणहनीति सप्तम्येकवचने विभाषा ङिश्योः इत्यिल्लोपाभावक्षेऽनुनासिकलक्षणो दीर्घो न भवतीत्यर्थः । सप्तम्येकवचनमुपलक्षणम् सर्वत्र दीर्घप्रसङ्गस्योक्तत्वात् । एवं योगविभागेन चोद्यं परिहृत्यैकस्मिन्योगे परिहर्तुमाह - शास्मीति । शास्मि - उपदिशामि तं प्रकारम्, येनैकयोगेऽपि दोषाभावः । अत्रापि सुडिति सर्वनामस्थानं लक्ष्यते सर्वनामस्थानग्रहणं निवर्त्य अनाश्रितसर्वनामस्थानत्वविशेषे प्रत्ययत्वमात्राश्रयेण । शौ नियमं कुरु वा । एवं वा कुरु, पूर्वोक्तं वा प्रकारमित्यर्थः । एवं च विशेषमनपेक्ष्य शौ नियमः क्रियमाणः प्रत्ययत्वेन तुल्यजातीये सर्वत्र प्रत्ययान्तरे निवृत्तिं करोति । यद्येवम्, वृत्रहेवाचरति वृत्रहायते इति क्यैङ् अकृत्सार्वधातुकयोः इत्यपि दीर्घो न स्यात् अत आह - दीर्घविधेरिति । निर्द्धारणे एषा षष्ठी, जातावेकवचनम् । उपधाशब्देन उपधालक्षणं दीर्घत्वमुच्यते । दीर्घविधानमध्ये उपधालक्षणस्य दीर्घस्य नियमादित्यर्थः । एतच्चोपधाग्रहणानुवृतेर्लक्ष्यते । हन्तेर्यो हन्तियः, तस्मिन्यो दीर्घविधिस्तत्र न दोष इत्यर्थः । क्वचितु - हन्तेति निपातोऽभिमुखीकरणार्थः पठ।ल्ते । अत्रापि यिग्रहणमुपलक्षणम्, दण्डीभूतैत्यत्र च्वौ च इत्यपि दीर्घो भवत्येव । इदानीमसत्यपि योगविभागे सर्वनामस्थानापेक्षायां सत्यामपि न दोष इत्याह - सुट।ल्पीति । अपिशब्दः अप्रकृतिप्रतिषेधे इत्यनेन सम्बन्धनीयः । वाशब्दः पक्षान्तरं द्योतयति । अत्रापि सुडिति सर्वनामस्थानोपलक्षणम्, तदयमर्थः - अथ वा - सुटि सर्वनामस्थाने प्रकृते प्रकरणादपेक्ष्यमाणे । एतेन लौकिकमधिकारमभ्युपगच्छति, शास्त्रीयस्तु नैवाभ्युपगम्यते । अनवकाश इति । हेतुगर्भमिदं विशेषणम् । यतोऽनवकाशः शौ नियमोऽतोऽप्रकृतस्याप्यनुनासिकदीर्घस्य प्रतिषेधे व्यावृतौ कर्तव्यायामपि प्रवर्तते । कथमनवकाशत्वमत आह - यस्य हीति । द्विविधं सर्वनामस्थानम् - शिः सुट् च, तत्र शिर्नपुंसकस्य सम्बन्धी, तत एतस्य विधानात्, सुट् तु स्त्रीपुंसयोः सुडनंपुसकस्य इति वचनात् । ततश्च यस्य नपुंसकस्य सम्बन्धिनि शौ नियमः क्रियते सुटि सर्वनामस्थानसंज्ञके नैतन्नपुंसके सम्भवति अनपुंसकस्येति वचनात् । हिशब्दो हेतौ, यस्मादेवं तेन कारणेन तत्र सर्वनामस्थाने सुटि नियन्तव्यं व्यावर्त्य दीर्घत्वं सम्भवतीति सामर्थ्यादविशेषेण नियम आश्रीयते । एतदुक्तं भवति - यदि प्रकारणाप्राप्तं सर्वनामस्थानत्वं शेराश्रीयते, तदा नपुंसकसम्बन्धित्वमप्याश्रयणीयम् । उभयथाश्रयणे वायमर्थो भवति - इन्नादीनां नपुंसकानां शावेव सर्वनाम स्थाने दीर्घत्वमिति । एवंविधस्य नियमस्य किं तुल्यजातीयं व्यावतेनीयम् नपुंसकानामेवैषां सर्वनामस्थानान्तरं न च तदस्तीति नियमविधानसामर्थ्यात्प्रकरणप्राप्तं सर्वनामस्थानत्वं सामर्थ्यप्राप्तं च नपुंसकत्वमुभयमप्यविशेषात्परित्यज्य प्रत्ययमात्रे स्त्रीपुंससम्बन्धिनि दीर्घत्वं व्यावर्त्यत इति । विनियम्यम् - साधु नियम्यम् । हन्तेरनुनासिकस्येत्यादिना प्रथमश्लोकं व्याचष्टे । सर्वनामस्थान इत्यादिना द्वितीयस्य पूर्वार्द्धम् यस्त्वित्यादिना पश्चार्द्धम् । अथ वेत्यादिना तृतीयश्लोकम् । अनुवर्तमानेऽपीति । लौकक्यत्रानुवृत्तिर्विवक्षिता, न शास्त्रीया स्वरितत्वनिबन्धना । तथा हि सति सामर्थ्यप्राप्तस्य नपुंकत्वस्यैव परित्यागः स्यात्, न वचननप्राप्तस्य सर्वनास्थानत्वस्य । सामर्थ्यप्राप्तस्य नंपुकत्वस्येव परित्यागः स्यात्, न वचनप्राप्तस्य सर्वनास्थानत्वस्य । समार्थ्यादित्युक्तम्, तदेव दर्शयति - शिशब्दो हीति । अविशेषेणोति । नंपुसकत्वं सर्वनामस्थानत्वं च विशेषमनाश्रित्येत्यर्थः । पूर्व नपुंसकत्वाप्रसञ्जनेन केवलसर्वनामस्थानत्वाश्रयेण नियमो दोषप्रसङ्गातथा नाश्रीयत इत्याद्ययोः श्लोकयोरुक्तम् । वृत्तिकारस्तु सर्वनामस्थानत्वपरित्यागेन केवलनपुंसकत्वाश्रयणमपि दोषप्रसङ्गादेव सर्वथा न कार्यमित्याह - तत्र त्विति । तुशब्दोऽपिशब्दोऽपिशब्दस्यार्थे भिन्नक्रमश्चैतत् इत्यस्यानन्तरं द्रष्टव्यः । तत्रैतस्मिन्नियमे क्रियमाणे नपुंसकस्येत्येतदपि विशेषणं नाश्रीयत इत्यर्थः । किमेवं सति सिद्धं भवति तद्दर्शयति ए- तेनेति । तदाश्रयणे ह्ययमर्थः स्यात् - इन्नादीनां नपुंसकानां शावेव दीर्घत्वमिति, ततश्च भ्रूणहनि ब्राह्मणकुले इत्यादावेव दीर्घत्वं न स्यात्, न लिङ्गान्तरे । तस्मान्नपुंसकत्वमपि विशेषणं नाश्रयणीयमिति भावः । कथं पुनरप्रकृतस्यासंशब्दितस्य नपुंसकत्वस्याश्रयणप्रसङ्गः इत्यह सर्वनामस्थानविधाने त्विति । सर्वनामस्थानमिति तटस्थमुपलक्षणम्, यदिदं सर्वनामस्थानं शिशब्दस्तस्य यद्विधानं जश्शयोरित्येतत्, तत्रेत्यर्थः । सर्वनामस्थानसंज्ञाविधाने त्विति पाठे योऽयं सर्वनामस्थानसंज्ञः पाठः, न तत्र समीचीनमर्थः पश्यामः । तथा हि - शि सर्वनामस्थानम् इत्येतत्संज्ञाविधानम्, तत्र नपुंसकग्रहणमस्ति । अथ शिशब्दस्य नपुंसकत्वाव्यभिचारादार्थान्नपुंसकस्याश्रयणम् तदत्रैव सूत्रे शक्यते वक्तुम्, किमुच्यते - संज्ञाविज्ञाने त्विति । अथावश्यमयमेव पाठो योज्यस्तदाडः प्रश्लेषः स च धात्वर्थानुवादी, सर्वनामस्थानसंज्ञस्याविधानं सर्वनामस्थानसंज्ञाविधानम्, तत्रेति, स एवार्थो यं पूर्वमवोचाम। तुशब्दो हेतौ, अपि स्यादिति सम्भावनायाम् । यस्मान्नपुंसकादेव शेर्विधानं तस्मातत्र शिशब्दे क्रियमाणस्य नियमस्य नपुंसकविषयता सम्भाव्यते इत्यर्थः ॥ अत्वसन्तस्य चाधातोः ॥ अत्रेत्यदि । ननु च परत्वान्नित्यत्वाच्च नुमेव पूर्व प्राप्नोति तत्राह - यदि हीति । इह दीर्घश्रुत्याचः स्थानित्वम्, तच्च न स्वरुपेण, किं तर्हि उपधायाः इत्यनुवृतेरुपधात्वनिबन्धनम्, अत एवाजन्तस्य दीर्घाभावः । तस्मात्सथानिन्येवात्र निमितशब्दः प्रयुक्तः । पिण्डग्रश्चर्मव इति । ग्रसु ग्लसु अदने, वस आच्छादने क्विप् । ननु चानर्थकत्वादेवात्र न भविष्यति, मूलोदाहरणेषु त्वसुन्प्रत्ययस्यार्थवत्वात्सिद्धमत आह - अनर्थकोऽपीति । अत्रैव हेतुमाह - अनिनस्मिन्ग्रहणानीति । अयमेव धातुप्रतिषेधो ज्ञापयति - अस्तीयं परिभाषेति । नैतदस्ति ज्ञापकम्, अस्यर्थमेतत्स्यात् - शत्रनस्यात्, शत्रूनस्यतीति शत्रूव इति, तस्माद्वचनमेवेदम् । अतुग्रहणे त्वर्थवतोऽतुशब्दस्याभावादेवानर्थकस्य ग्रहणम् । अन्तग्रहणमनर्थकम्, केवलयोरत्वसोरभावादेव सिद्धमत आह अन्तग्रहणमित्यादि । अपदेशः - लक्षणवाक्यानि गणपाठश्च, प्रयुज्यत इति प्रयोगः, उपदेशे प्रयोग उपदेशप्रयोगः । उपदेशे यत्प्रयुज्यते शब्दंरुपं तदेकदेशस्याप्यत्वसन्तस्य परिग्रहार्थमित्यर्थः । असति पुनरन्तग्रहणे कस्य ग्रहणं न स्यात् इत्यत आह - इतरथा हीति । मतुब्ग्रहणमुपलत्रणम् । कुमुदनडवेतसेभ्यो डमतुप् इत्यस्यापि ग्रहणं न स्यात् । किं कारणमित्यत आह - उपदेश इति । रुपनिर्ग्रहः - रुपनिश्चयः । स यद्यपि लौकिते प्रयेगे भवति, अनुबन्धयुक्तं तु रुपमुपदेश एव निश्चीयत इत्युपदेश इत्युक्तम् । नायमत्वन्त इति । यद्यपि तावतोऽवधेरतुरन्तः, तथापि न तत्पर उपदेशः, यत्परश्चोपदेशो न सोऽत्वन्तः, पकारान्तत्वात् । ततश्च तस्य ग्रहणं न स्यात्, अन्तग्रहणसामर्थ्यातु तावतोऽप्यवधेरत्वन्तस्य ग्रहणम् ॥