6-1-129 अप्लुतवत् उपस्थिते संहितायाम् प्रकृत्या अचि नित्यम्
प्लुतः अवस्थिते अप्लुतवत्
संहितायाम् अवैदिके 'इति' शब्दे परे प्लुतः अप्लुतवत् भवति ।
When followed by an अवैदिक 'इति' word, a प्लुत behaves as if it is not प्लुत in the context of संहिता.
उपस्थितं नामानार्ष इतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते। तस्मिन् परतः प्लुतोऽप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक३ इति सुश्लोकेति। सुमङ्गल३ इति सुमङ्गलेति। वत्करणं किम् ? अप्लुत इत्युच्यमाने प्लुत एव प्रतिषिध्यते। तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्। अग्नी३ इति। वायू३ इति॥
उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥
उपस्थिते परे प्लुतः अप्लुतवत् भवति — इति अस्य सूत्रस्य पदशः अर्थः । 'उपस्थितः' इत्युक्ते अवैदिकवाङ्मये प्रयुज्यमानः 'इति' शब्दः । इत्युक्ते, लौकिकसंस्कृते वाक्येषु प्रयुज्यमानः इति अयं शब्दः उपस्थितः नाम्ना ज्ञायते । अस्मिन् शब्दे परे प्लुतस्वरः अप्लुतवत् कार्यं करोति — इत्युक्ते, तस्य <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन अच्-सन्धौ प्रकृतिभावः न जायते — इति प्रकृतसूत्रस्य आशयः ।
यथा,
<<अप्लुतवदुपस्थिते>> - तदाह — उपस्थितोऽनार्ष इति । अप्सुतवद्भावस्य प्रयोजनमाह — प्लुतकार्यं प्रकृतिभावमिति ।अप्लुतकार्यं यणादिकं करोती॑ति पाठान्तरम् । सुश्लोकं३ इतीति । तैत्तिरीये 'सुश्लोक३' इति प्लुतान्तो मन्त्रः पठितः । पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति । तत्रसुश्लोक३ इती॑ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति । अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः । तदेव 'सुश्लोकेति' इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तुसुश्लोक३ इति सुश्लोक३ इती॑त्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम् । संहितायामेव यणादिसन्धिविधानात् । वत्किमिति ।अप्लुत्तव॑दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह — अप्लुत इत्यादिना । वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते । अतः प्लुत एव निवर्तेत । ततश्च अग्नी३ इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते । वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः ।
ऋषिःउवेदः तत्र भव आर्षः, ततोऽन्योनार्षः, समुदायाद्वाक्यादवच्छिद्य पृथककृत्य स्वरूपेऽवस्थाप्यते। कैः? पदकारैः। पदस्येयतापरिज्ञानाय अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। तत्र येन साधर्म्येणाप्लुतवत्वम्, तद्दर्शयति - अप्लुतकार्यमिति। तत्रापि प्लुतशब्देन विहितस्य कार्यस्य प्रतिषेध इति दर्शयति - प्रकृतिभावं करोतीति। अन्यथा स्वरसन्धेरपि प्रतिषेधः स्यात्, तस्यापि प्लुकार्यत्वात्। उदाहरणेषु प्लुतकार्यपब्रतिषेधादेकादेशो भवत् प्लुतमेवोपमृद्य भवति; स्वरसन्धिप्रकरणे प्लुतस्य सिद्वत्वात्। तत्र को दोष इति। एकादेशेन निवर्त्यमानत्वात् प्लुतस्य श्रवणेन न भवितव्यमिति प्लुत एव निषिध्यताम्, किमर्थमतिदेशाश्रयणमिति प्रशनः। अग्नी3 इतीति। यत्र प्लुताश्रयोऽपि प्रकृतिभावः प्राप्नोति, प्रगृह्याश्रयोऽपि; तत्र प्लुताश्रयस्य प्रतिषेधेऽपि प्रगृह्याश्रयस्य प्रकृतिभावस्य प्रतिषेधाभावात् प्लुतस्य श्रवणं सिद्ध्यति, प्लतप्रतिषेधे तु क्रियमाणेऽत्रापि श्रवणं न स्यात् ॥