5-4-47 हीयमानपापयोगात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः अन्यतरस्याम् तसिः अतिग्रहाव्यथनक्षेपेषु अकर्तरि तृतीयायाः
हीयमान-पाप-योगात् तृतीयायाः अकर्तरि तसिः
'हीयमान' तथा 'पाप' एतयोः योगे विद्यमानः यः तृतीयान्तः शब्दः, तस्मात् स्वार्थे तसि-प्रत्ययः भवति । परन्तु तृतीयान्तशब्दः कर्तुः निर्देशं करोति चेत् अयम् प्रत्ययः न विधीयते ।
अकर्तरि तृतीयाया इत्येव। हीयमानेन पापेन च योगो यस्य तद्वाचिनः शब्दात् परा या तृतीया विभक्तिरकर्तरि तदन्ताद् वा तसिः प्रत्ययो भवति। वृत्तेन हीयते, वृत्ततो हीयते। चारित्रेण हीयते, चारित्रतो हीयते। पापयोगात् — वृत्तेन पापः, वृत्ततः पापः। चारित्रेण पापः, चारित्रतः पापः। क्षेपस्य चाविवक्षायां तत्त्वाख्यायामिदमुदाहरणम्। क्षेपे हि पूर्वेणैव सिद्धम्। अकर्तरीत्येव — देवदत्तेन हीयते॥
हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥
'हीयमान' (= The one which is left out इत्यर्थः) तथा 'पाप' (= दुष्टः, evil) एतयोः शब्दयोः योगे विद्यमानाः यः तृतीयान्तशब्दः, तस्मात् स्वार्थे तसि-प्रत्ययः विधीयते । क्रमेण पश्यामः- 1. 'हीयमान' - अयम् शब्दः 'हा (त्यागे)' इत्यस्य धातोः कर्मणि-शानच्-प्रत्ययान्तरूपमस्ति । हीयते तत् हीयमानम् । The one that is left out - इत्याशयः । कञ्चन देवदत्तम् तस्य बान्धवाः सर्वेे चारित्र्यस्य आधारेण त्यजन्तीति चिन्तयामः (Devadatta is left out by his family on the account of conduct इत्याशयः) । अस्यां स्थितो 'बन्धुभिः वृत्तेन (= चरित्रेण) हीयमानः देवदत्तः' इति वाक्यप्रयोगः भवति । अत्र त्यजनस्य हेतुः 'वर्तनम्' अस्ति, अतः <<हेतौ>> 2.3.23 इत्यनेन अस्य तृतीया विभक्तिः भवति । अस्मिन वाक्ये 'हीयमानः' अस्य सम्बन्धः 'वृत्तेन' इति तृतीयान्तशब्देन सह विद्यते, अतः अत्र वर्तमानसूत्रेण 'तसि' प्रत्ययं प्रयुज्य 'बन्धुभिः वृत्ततः हीयमानः देवदत्तः' इति रूपम् सिद्ध्यति । एवमेव 'चरित्रेण हीयते देवदत्तः' अत्रापि 'चरित्रतः हीयते देवदत्तः' इति प्रयोगः क्रियते । यद्यपि सूत्रे 'हीयमान' इत्येव उच्यते, तथापि 'हीयते' इत्यस्यैव अर्थः अपि समानः एव, अतः 'हीयते' शब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवति । प्रक्रिया एतादृशी - चरित्रेण + तसि → चरित्रेण + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → चरित्र + टा + तस् [अलौकिकविग्रहः] → चरित्र + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति टा-प्रत्ययस्य लोपः] → चरित्रतः [सकारस्य <<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2. 'पाप' - अयम् शब्दः अत्र 'पापकर्म' अस्मिन् अर्थे न प्रयुज्यते अपितु 'पापम् करोति सः' अस्मिन अर्थे प्रयुक्तः अस्ति । (<<अर्शआदिभ्योऽच्>> 5.2.127 इत्यत्र निर्दिष्टे अर्श-आदिगणे अस्य शब्दस्य ग्रहणं कृत्वा 'पापमस्य अस्मिन् अस्ति सः पापः' इति शब्दः सिद्ध्यति) । अस्य शब्दस्य योगे यः तृतीयान्तः शब्दः प्रयुज्यते, तस्माय् वर्तमानसूत्रेण 'तसि' प्रत्ययः भवति । यथा - 'वृत्तेन पापः' (वृत्तेन दुष्टः / evil by character इत्यर्थः) इत्येव = वृत्ततः पापः । यदि तृतीयान्तशब्दः कर्तुः निर्देशं करोति, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवदत्तेन हीयते धनम् - अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । स्मर्तव्यम् - 1. यदि वाक्येन क्षेपः / निन्दा गम्यते, तर्हि <<अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः>> 5.4.46 इत्यनेन पूर्वसूत्रेणैव तसि-प्रत्ययः विधीयते । अतः यत्र 'पाप' / 'हीयमान' इति विषयः अस्ति परन्तु निन्दा न गम्यते, तत्रैव वर्तमानसूत्रस्य प्रयोगः भवति । 2. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति । 3. 'तसि'प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । 4. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> 4.1.82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'वृत्तेन हीयमानः देवदत्तः' एतादृशाः प्रयोगाः अपि विधीयन्ते ।
उदाहरणेषु वृतस्य हीयमानेन पापेन च योगः, हेतौ करणे वा तृतीया, कर्ता त्वत्र बन्धुजनादिः। क्षेपस्याविवक्षायामित्यादि। कस्मादेवमित्याह - क्षेपे हीति ॥