हेतौ

2-3-23 हेतौ अनभिहिते तृतीया

Kashika

Up

index: 2.3.23 sutra: हेतौ


फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते। तद्वाचिनस् तृतीया विभक्तिर्भवति। धनेन कुलम्। कन्यया शोकः। विद्यया यशः।

Siddhanta Kaumudi

Up

index: 2.3.23 sutra: हेतौ


हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥<!अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया !> (वार्तिकम्) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥

Balamanorama

Up

index: 2.3.23 sutra: हेतौ


हेतौ - हेतौ । हेत्वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एव विवक्षितो, नतुतत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादिसाधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियं च प्रति यज्जनकं, तत्र सर्वत्र विद्यमानमित्यर्थः । निर्वापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निव्र्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारवद्वृत्ति च यत्तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाऽभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति-पुण्येन दृष्टो हरिरिति । वागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निव्र्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तुपुण्येन ब्राहृवर्चस॑मित्याद्युदाहार्यम् । नन्वध्ययनेन वसतीत्यत्र कथं तृतीया, अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाऽभावात्, प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह — फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वासं प्रति हेतुरपि भवति, इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति-अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् ।ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात्करणत्वहेतुत्वयोरसंभवात्कथं तृतीयेत्यत आह-गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किं तु गम्यमानाऽपीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह — अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रतीदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते ।अलं भूषणपर्याप्तिशक्तिवारणवाचक॑मित्यमरः ।साध्य॑मित्यष्याहारलभ्यम् । तदाह — श्रमेण साध्यं नास्तीति । सद्यः खेदाधायकत्वात्साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्रादिफलस्य क्रियारूपत्वाऽभावात्कथं श्रमस्य तत्र करणत्वमित्यत आह — इहेति ।साध्य॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका, तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाऽभेद इति निरस्तम्, श्रमशब्देन व्रीह्राद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य,साधनक्रियां प्रती॑त्यनेन व्रीह्राद्युत्पत्तेश्च विवक्षितत्वात् ।गम्यमानापि क्रिया विभक्तौ प्रयोजिके॑त्यत्र उदाहरणान्तरमाह — शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान्पाययतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठशतसङ्ख्यायाः पायने करणत्वाऽभावात्परिच्छिद्येति गम्यते । एकैकशतसङ्ख्यया वत्सान्परिच्छिद्य=तदधिकवत्सेभ्यो व्यावर्त्त्य पाययतीत्यर्थः । तथाच शतसङ्ख्यायाः परिच्छेदं प्रति करणत्वमिति भावः ।अशिष्टेति । इदंचदाणश्च सा चेच्चतुथ्र्यर्थे॑ इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेता अशिष्टाः, तेषां व्यवहारः= आचारः, तस्मिन्विषये दाण्धातो प्रयोगे सति चतुथ्र्यर्थे संप्रदाने तृतीया वाच्येत्यर्थः । दास्येति । दास्यै कामुकः प्रयच्छतीत्यर्थः । 'कामुक' इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिर्धमशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः । असिष्टपदप्रयोजनमाह-धम्र्ये त्विति । धर्मादनपेत इत्यर्थः ।न तृतीये॑ति शेषः ।धर्मपथ्यर्थन्यायादनपेते इति य॑दिति रत्नाकरः । धर्मे त्विति पाठस्तु सुगम एव । इति तृतीया ।

Padamanjari

Up

index: 2.3.23 sutra: हेतौ


हेतौ॥ तत्प्रयोजको हेतुश्चऽ शास्त्रीयस्य हेतोश्चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वाल्लौकिकौ हेतुर्गृह्यत इत्याह - फलसाधनयोग्य इत्यादि। लोके ह्यङ्कुरादिकार्योत्पादने योग्यतामात्रप्रयुक्तोऽनाश्रितव्यापारो द्रव्यगुणक्रियाविषयो बीजादिर्हेतुः। उक्तं च - द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरुच्यते॥ इति च। उदाहरणेषु क्रियाया अभावात्करणत्वमनाशङ्कनीयम्। यूपाय दार्वित्यत्र तादर्थ्य विवक्षितम्, न तु सदपि हेतुत्वमिति दारुशब्दात् प्रथमैव भवति॥