5-4-46 अतिग्रहाव्यथनक्षेपेषु अकर्तरि तृतीयायाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः अन्यतरस्याम् तसिः
अतिग्रह-अव्यथन-क्षेपेषु तृतीयायाः अकर्तरि तसिः
'अतिग्रह', 'अव्यथन' तथा 'क्षेप' एतेषु विषयेषु तृतीयान्तशब्दात् स्वार्थे तसि-प्रत्ययः विधीयते । परन्तु यदि कर्ता तृतीयायां विद्यते तर्हि तस्मात् तसि-प्रत्ययः न भवति ।
अतिक्रम्य ग्रहोऽतिग्रहः। अचलनमव्यथनम्। क्षेपो निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेनातिगृह्यते, वृत्ततोऽतिगृह्यते। चारित्रेणातिगृह्यते, चारित्रतोऽतिगृह्यते। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यत इत्यर्थः। अव्यथने — वृत्तेन न व्यथते, वृत्ततो न व्यथते। चारित्रेण न व्यथते, चारित्रतो न व्यथते। वृत्तेन न चलतीत्यर्थः। क्षेपे — वृत्तेन क्षिप्तः, वृत्ततः क्षिप्तः। चारित्रेण क्षिप्तः, चारित्रतः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः। अकर्तरीति किम् ? देवदत्तेन क्षिप्तः॥
अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥
प्रारम्भे सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः - 1. अतिग्रह = अनतिक्रम्य वर्तनम् (behavior without breaking the rules) इत्युक्ते अतिग्रहः । यथा - देवदत्तः चरित्रेण अतिगृह्यते । Devadatta is known by people as the one who will never behave immorally - इत्याशयः । 2. अव्यथन = मार्गात् अनिवृत्तिः / अचलनम् (Does not astray away / deviate / fall away from the appropriate path इत्याशयः) । यथा - देवदत्तः वृत्तेन न व्यथते । Devadatta does not deviate from the correct gesture - इत्याशयः । 3. क्षेप = निन्दा (insult) इत्याशयः । यथा - देवदत्तः वृत्तेन क्षिप्तः (Devadatta was insulted because of his behavior)। एतेषु विषयेषु तृतीतान्तशब्दात् स्वार्थे तसि-प्रत्ययः भवति । यथा - 1.देवदत्तः चरित्रेण अतिगृह्यते इत्येव = देवदत्तः चरित्रतः अतिगृह्यते । प्रक्रिया इयम् - चरित्रेण + तसि → चरित्रेण + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → चरित्र + टा + तस् [अलौकिकविग्रहः] → चरित्र + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति टा-प्रत्ययस्य लोपः] → चरित्रतः [सकारस्य <<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव - 2. देवदत्तः वृत्तेन न व्यथते इत्येव = देवदत्तः वृत्ततः न व्यथते । 3. देवदत्तः वृत्तेन क्षिप्तः इत्येव = देवदत्तः वृत्ततः क्षिप्तः । यत्र कर्तुः तृतीया विभक्तिः विधीयते, तत्र तस्मात् तसि-प्रत्ययः न भवतीति स्पष्टीकर्तुमस्मिन् सूत्रे 'अकर्तरि' इति निर्दिष्टमस्ति । यथा - 'यज्ञदत्तः देवदत्तेन क्षिप्तः' अस्मिन् वाक्ये क्षेपक्रियायाः कर्ता 'देवदत्तः' तृतीयया गृह्यते, अतः अत्र तसि-प्रत्ययः न भवति । ज्ञातव्यम् - 1. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> 4.1.82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ' देवदत्तः चारित्रेण अतिगृह्यते' एतादृशाः प्रयोगाः अपि विधीयन्ते । 2. 'तसि' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
अतिक्रम्य ग्रहोऽतिग्रह इति। अतिशब्दोऽत्रातिक्रमणे वर्तते इति दर्शयति। अतिशब्दो हि ससाधनेऽप्यतिक्रमणे दृष्टः, तद्यथा -'तस्माद्ब्राह्मणे राजन्यवानत्यन्यं ब्राह्मणम्' इति,'न वै देवा नमस्कारमति' इति च। तेन तस्यातिक्रमणमात्रे वृत्तिर्न सम्भवति। वृतेनातिगृह्यत इति। बहुष्वासीनेष्वन्यातिक्रमेणायमसाविति विज्ञायत इत्यर्थः, तत्र वृतं कारणम्। चारित्रेणेति।'चरेर्वृते ह्रस्वश्च वा' इति णित्रन्प्रत्ययः-चरित्रम्, चारित्रम् ॥