षष्ठ्या व्याश्रये

5-4-48 षष्ठ्याः व्याश्रये प्रत्ययः परः च आद्युदात्तः च तद्धिताः अन्यतरस्याम् तसिः

Sampurna sutra

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


व्याश्रये षष्ठ्या तसिः

Neelesh Sanskrit Brief

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


व्याश्रये गम्यमाने षष्ठ्यन्तात् तसि-प्रत्ययः भवति ।

Kashika

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्। षष्ठी च अत्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्षे इत्यर्थः। व्याश्रये इति किम्? वृक्षस्य शाखा।

Siddhanta Kaumudi

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


'व्याश्रय' इत्युक्ते 'सङ्घे / पक्षे समावेशः' (Take the side of / join the league of - इति) । व्याश्रये गम्यमाने षष्ठ्यन्तात् 'तसि' इति प्रत्ययः विधीयते । यथा -

  1. 'देवाः अर्जुस्य पक्षे अभवन् (= अर्जुनस्य साहाय्यमकुर्वन् इत्याशयः) इत्यत्र 'अर्जुनस्य' इत्यस्मात् तसि-प्रत्ययं योजयित्वा 'अर्जुनतः' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -

अर्जुनस्य + तसि

→ अर्जुनस्य + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]

→ अर्जुन + ङस् + तस् [अलौकिकविग्रहः]

→ अर्जुन + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः]

→ अर्जुनतः [सकारस्य ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

यथा - देवाः अर्जुनतः अभवन् ।'देवाः अर्जुनस्य पक्षे समाविष्टाः अभवन्' इत्येव अस्य अर्थः ।

एवमेव -

  1. कर्णः दुर्योधनतः अभवन् ।

  2. कृष्णः पाण्डवतः अभवन् ।

तस्-प्रत्ययेन प्रयुक्तस्य शब्दस्य प्रयोगे 'पक्ष' इति नैव प्रयुज्यते - इति स्मर्तव्यम् ।

ज्ञेयाः -

  1. 'तसि'प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

  2. एतत् सूत्रम् समर्थानां प्रथमात् वा 4.1.82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'देवाः अर्जुनम् व्याश्रयन्' एतादृशाः प्रयोगाः अपि विधीयन्ते ।

  3. अत्र सूत्रे 'षष्ठ्या' इति उच्यते, अतः विग्रहवाक्ये 'अस्य पक्षे अभवन्' इत्येव निर्देशः क्रियते । 'व्याश्रय' इति शब्दः विग्रहवाक्ये नैव प्रयुज्यते ।

  4. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।

Padamanjari

Up

index: 5.4.48 sutra: षष्ठ्या व्याश्रये


नानापक्षसमाश्रयो व्याश्रय इति। तथा च'हेतुमति च' इत्यत्र भाष्ये प्रयोगः - व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यतेः गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ॥