अनुगादिनष्ठक्

5-4-13 अनुगादिनः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


अनुगादिनः ठक्

Neelesh Sanskrit Brief

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


'अनुगादिन्' शब्दात् स्वार्थे 'ठक्' प्रत्ययः भवति ।

Kashika

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


अनुगदतीति अनुगादि। अनुगादिन्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः।

Siddhanta Kaumudi

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


'अनुगादिन्' इति शब्दः 'अनु + गद्' इत्यस्मात् नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इत्यनेन 'णिनि' प्रत्ययं कृत्वा सिद्ध्यति । 'अनन्तरम् वदति' (speaks later) अस्मिन् अर्थे 'अनुगादिन्' शब्दः प्रयुज्यते । अस्मात् वर्तमानसूत्रेण स्वार्थे ठक्-प्रत्ययः भवति ।

यथा - अनुगदति सः

= अनु + गद् + णिनि + ठक् [नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इत्यनेन 'णिनि'प्रत्ययः । वर्तमानसूत्रेण स्वार्थे 'ठक्' प्रत्ययः]

→ अनु + गद् + इन् + इक [ ठस्येकः 7.3.50 इति इक्-आदेशः]

→ अनु + गाद् + इन् + इक [अतः उपधायाः 7.2.116 इति 'णिनि' प्रत्ययस्य अङ्गस्य उपधावृद्धिः]

→ आनु + गाद् + इन् + इक [किति च 7.2.118 इति 'ठक्' प्रत्ययस्य अङ्गस्य आदिवृद्धिः]

→ आनु + गाद् + इक [नस्तद्धिते 6.4.144 इति टिलोपः]

→ आनुगादिक

विशेषः - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यस्मात् आरभ्य एकस्य सकृच्च 5.4.19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'अनुगदति सः' इत्यस्मिन् अर्थे 'आनुगादिक' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'इनि' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् । 'ठक्' प्रत्ययविधानमपि करणीयम् एव ।

Balamanorama

Up

index: 5.4.13 sutra: अनुगादिनष्ठक्


अनुगादिनष्ठक् - अनुगादिनष्ठक् । 'स्वार्थे' इति शेषः । 'आमादयः प्राङ्भयटः' इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेणचः स्त्रिया॑मिति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते ।