द्वित्रिभ्यामञ्जलेः

5-4-102 द्वित्रिभ्याम् अञ्जलेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

तत्पुरुषस्यद्विगोः द्वि-त्रिभ्यामञ्जलेः अतद्धितलुकि टच् प्राचाम्

Neelesh Sanskrit Brief

Up

यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते ।

Kashika

Up

द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्। द्विगोरित्येव — द्वयोरञ्जलिर्द्व्यञ्जलिः। अतद्धितलुकीत्येव — द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचामित्येव — द्व्यञ्जलिप्रियः॥

Siddhanta Kaumudi

Up

टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्य द्विगुसमासस्य पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते विकल्पेन) 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते । यथा - द्वयोः अञ्जल्योः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति द्विगुसमासः] → द्वि + अञ्जलि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → द्व्यञ्जलि + अ [<<इको यणचि>> 6.1.77 इति यणादेशः] → द्व्यञ्जल् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → द्व्यञ्जल द्वयोः अञ्जल्योः समाहारः द्व्यञ्जलम् । एवमेव - तिसृणामञ्जलीनाम् समाहारः त्र्यञ्जलम् । पक्षे टच्-प्रत्ययं विना 'द्व्यञ्जलि' / 'त्र्यञ्जलि' एतौ शब्दौ अपि सिद्ध्यतः । यत्र तद्धितप्रत्ययस्य लुक् भवति तत्र तु टच्-प्रत्ययः पक्षे अपि न विधीयते । यथा - द्वाभ्यां अञ्जलीभ्याम् क्रीतम् (purchased by giving two handfuls of something) द्वि + अञ्जली + ठक् [<<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> 5.1.19 इति ठक्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → द्वि + अञ्जली [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्] → द्व्यञ्जली [<<इको यणचि>> 6.1.77 इति यणादेशः] द्वाभ्यां अञ्जलीभ्याम् क्रीतम् तत् द्व्यञ्जलि । अत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति नपुंसकलिङ्गस्य विषये ह्रस्वादेशः भवति । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।

Balamanorama

Up

<<द्वित्रिभ्यामञ्जलेः>> - द्वित्रिभ्यामञ्जलेः । शेषपूरणेन सूत्रं व्याचष्टे — टज्वा स्यादिति । द्विगाविति । द्व्यञ्जलमिति । द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच्यस्येति च॑,स नपुंसकम् । द्व्यञ्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । अतद्धितलुकीत्येवेति । अनुवर्तत एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति । अञ्जलिशब्दोऽञ्जलिपरिमितधान्यादौ वर्तते, केवलस्थाऽञ्जलेर्मूल्यत्वाऽडसम्भवात् । परिमाणत्वाट्ठञ् ।अध्यर्धे॑ति तस्य लुक् ।

Padamanjari

Up

द्वाभ्यामञ्जलिभ्यां क्रीतो द्वयञ्जलिरिति। अञ्जलिपरिमितो व्रीह्यादिरञ्जलिः; न पाणिद्वयम्, तस्य मुल्लत्वासम्भवात्। ततश्च परिमाणत्वात्प्राग्वतीयस्य ठकः ठध्यर्द्धपूर्वऽ इति लुक्। द्व्यञ्जलिप्रिय इति। व्यवस्थैतविभाषात्वादुतरपदद्विगोर्न भवतीत्याहुः ॥