5-4-103 अनसन्तात् नपुंसकात् छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
तत्पुरुषस्य अन्-असन्तात् नपुंसकात् छन्दसि टच्
यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुंसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति ।
अन्नन्तादसन्तात् च नपुंसकलिङ्गात् तत्पुरुषात् टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। ऋषभचर्मेऽध्यभिषिच्यते (काठ० सं० ३७.३)। असन्तात् — देवच्छन्द॒सा॑नि (मै०सं० ३.२.९)। मनुष्यच्छन्द॒सम् (तै०सं० ५.४.८.६)। अनसन्तादिति किम्? बिल्वदारु जुहोति। नपुंसकादिति किम्? सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑म् (ऋ० १०.६३.१०)॥ अनसन्तान्नपुंसकाच्छन्दसि वावचनम्॥ ब्रह्मसाम (ता०ब्रा० ४.३.१)। देवच्छन्दः (शां०ब्रा० १.५)। ब्रह्मसा॒मम् (तै०सं० १.८.१८.१)। देवच्छन्द॒सम् (तै०सं० ५.४.८.५)॥
तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥
यस्मिन् तत्पुरुषसमासे विद्यमानमुत्तरपदम् 'अन्' उत 'असन्' इत्यनेन समाप्यते, तथा च यत्र समस्तपदम् नपुंसकलिङ्गे प्रयुज्यते, तस्मात् वेदेषु 'टच्' इति समासान्तप्रत्ययः भवति । यथा, काठकसंहितायाम् 'ऋषभचर्मे अभिषिञ्चति' इति निर्देशः विद्यते । अत्र 'ऋषभस्य चर्म' अत्र तत्पुरुषसमासे कृते 'टच्' इति समासान्तप्रत्ययः भवति येन 'ऋषभचर्म' इति अकारान्तशब्दः सिद्ध्यति । अत्र एकम् वार्त्तिकम् ज्ञेयम् - <!अनसन्तान्नपुंसकाच्छन्दसि वावचनम्!> । इत्युक्ते, अनेन सूत्रेण उक्तः टच्-प्रत्ययः वेदेषु विकल्पेनैव भवति । यथा, 'ब्रह्मणः साम' इत्यस्मिन् अर्थे टच्-प्रत्ययं विना 'ब्रह्मसाम' तथा टच्-प्रत्ययं प्रयुज्य 'ब्रह्मसामम्' एतौ द्वौ अपि प्रयोगौ दृश्येते ।
सुत्रामाणमिति। सुष्ठुअ त्रायते इति ठातो मनिन्ऽ, उपपदसमासः। अनेहसमिति।'नञ्याहन एह च' इत्याङ्पूर्वाद्धन्तरेसिप्रत्ययः, धातूपसर्गयोश्चेहादेशः, नञ उपपदसमासः, द्वितीयैकवचनम्। अन्तग्रहणं विस्पष्टार्थम् ॥