खार्याः प्राचाम्

5-4-101 खार्याः प्राचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् द्विगोः अर्धात् च

Sampurna sutra

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


तत्पुरुषस्य अर्धात् द्विगोः च खार्याः टच्

Neelesh Sanskrit Brief

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


द्विगोः, अर्धच् चेति द्वयमप्यनुवर्तते। खारीशब्दान्तात् द्विगोरर्धाच् च परो यः खारीशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन। द्वे खर्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्धं खार्याः अर्धखारम्, अर्धखारि।

Siddhanta Kaumudi

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


यस्मिन् तत्पुरुषसमासे 'खारी' (किञ्चन परिमाणम्, quintal इत्याशयः) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) 'टच्' इति समासान्तप्रत्ययः भवति । तथा च, यस्मिन् द्विगुसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् अपि प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) टच् इति समासान्तप्रत्ययः भवति ।

उदाहरणे एते -

  1. अर्धम् खार्याः (half quintal) [अर्धं नपुंसकम् 2.2.2 इति प्रथमातत्पुरुषसमासः]

→ अर्ध + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]

→ अर्ध + खार् + अ [यस्येति च 6.4.148 इति टिलोपः]

→ अर्धखार

अर्धं खार्याः अर्धखारम् ।

पक्षे (टच्-प्रत्ययस्य अभावे) अर्धखारि इत्यपि रूपम् सिद्ध्यति । प्रक्रियायाम् 'अर्ध + खारी' इति स्थिते ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्यनेन 'खारी' इत्यस्य ह्रस्वादेशः भवतीति विशेषः ।

  1. द्वयोः खार्योः समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति द्विगुसमासः]

→ द्वि + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]

→ द्वि + खार् + अ [यस्येति च 6.4.148 इति टिलोपः]

→ द्विखार [स नपुंसकम् 2.4.17 इत्यनेन नपुंसकलिङ्गम्]

द्वयोः खार्योः समाहारः द्विखारम् ।

पक्षे (टच्-प्रत्ययस्य अभावे) द्विखारि इत्यपि रूपम् सिद्ध्यति । अत्रापि 'द्वि + खारी' इति स्थिते ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्यनेन 'खारी' इत्यस्य ह्रस्वादेशः भवति ।

विशेषः - अस्मिन् सूत्रे 'अतद्धितलुकि' इति न अनुवर्तते, यतः खारी-शब्दस्य विषये तद्धितप्रत्ययस्य लुक् न सम्भवति । अस्मिन् विषये खार्या ईकन् 5.1.33 इत्यत्र विस्तारेण उक्तमस्ति ।

Balamanorama

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


खार्याः प्राचाम् - खार्या) प्राचाम् । खारीशब्दान्ताद्द्विगोरर्धपूर्वकात्खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच् ।यस्येति च॑ ।स नपुंसक॑मिति नपुंसकत्वम् । टजभावपक्षेस नपुंसक॑मिति नपुंसकत्वान्नपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत्समासः । टजभावपक्षेपरवल्लिङ्ग॑मिति स्त्रीत्वम् । एकविभक्तावषष्ठन्तवचनादुपसर्जनत्वाऽभावान्न ह्रस्वः । 'अर्धखारि' इति काचिद्ध्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः ।

Padamanjari

Up

index: 5.4.101 sutra: खार्याः प्राचाम्


द्विखारीति। टजभावपक्षे नपुंसकह्नस्वत्वम्। अयं योगः शक्योऽवक्तुम् त्रिखारमिति? खारीशब्देन समानार्थः खारशब्दोऽस्ति यथा च'तदस्य परिमाणम्' ,'संख्यायाः संज्ञा' इत्यत्र ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति वार्तिकम् ॥