5-1-33 खार्याः ईकन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः
index: 5.1.33 sutra: खार्या ईकन्
आ-अर्हात् खार्याः अध्यर्धपूर्वद्विगोः ईकन्
index: 5.1.33 sutra: खार्या ईकन्
सर्वेषु आर्हीय-अर्थेषु 'खारी'शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ईकन्-प्रत्ययः भवति ।
index: 5.1.33 sutra: खार्या ईकन्
index: 5.1.33 sutra: खार्या ईकन्
अध्यर्धपूर्वद् द्विगोः इत्येव अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च खारीशब्दानतातार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्। केवलायाश्चेति वक्तव्यम्। खारीकम्। काकिण्याश्च उपसङ्ख्यानम्। अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम्। केवलायाश्च। काकिणीकम्।
index: 5.1.33 sutra: खार्या ईकन्
अध्यर्धखारीकम् । द्विखारीकम् ।<!केवलायाश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ खारीकम् ॥
index: 5.1.33 sutra: खार्या ईकन्
'खारी' (= मापनस्य किञ्चन परिमाणम्, quintal इत्यर्थः) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति ।
द्वे खार्यौ परिमाणमस्य तत्
= द्वि + खारी + ईकन्
→ द्वि + खार + ईकन् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः]
→ द्विखार् + ईक [यस्येति च 6.4.148 इति अकारलोपः]
→ द्विखारीक
तथैव, तिस्रः खार्यः परिमाणमस्य तत् त्रिखारीकम् । अध्यर्धा खारी परिमाणमस्य तत् अध्यर्धखारीकम् ।
विशेषः - अस्मिन् सूत्रे 'कन्' इति प्रत्ययः उच्यते चेदपि तदेव रूपम् स्यात् - इति भासते । यथा - द्वि + खारी + कन् → द्विखारीक' । परन्तु वस्तुतः ककारादौ प्रत्यये परे केऽणः 7.4.13 इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयेत, येन 'खारिक' इति अनिष्टं रूपं सिद्ध्येत । अतः अत्र 'कन्' प्रत्ययविधानम् भवितुम् न अर्हति । अतएव आचार्यः अत्र 'ईकन्' इति प्रत्ययं पाठयति ।
अत्र द्वे वार्त्तिके ज्ञातव्ये -
<!केवलायाश्चेति वक्तव्यम् !> । इत्युक्ते, केवलात् 'खारी'शब्दात् अपि आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । खारी परिमाणमस्य तत् खारीकम् ।
<! काकिण्याश्च उपसङ्ख्यानम्; केवलायाश्च!> । इत्युक्ते, 'काकिणी'(=अन्तरस्य किञ्चन परिमाणम्) अस्य शब्दस्य विषये अध्यर्धपूर्व/द्विगुसमासात्, तथा च केवलात् 'काकिणी'शब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । द्वे काकिण्यौ परिमाणमस्य तत द्विकाकिणीकम् । अध्यर्धया काकिण्या क्रीतमध्यर्धकाकिणीकम् । काकिणी परिमाणमस्य तत् काकिणीकम् ।
ज्ञातव्यम् - अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ईकन्-प्रत्ययः क्रियते ।
index: 5.1.33 sutra: खार्या ईकन्
खार्या ईकन् - खार्या ईकन् ।अध्यद्र्धपूर्वा॑दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति — अध्यर्थखारीकं, द्विखारीकमिति ।तदस्य परिमाण॑मिति ठञि तस्य च लुकि प्राप्ते ईकन् ।
index: 5.1.33 sutra: खार्या ईकन्
खारि परिमाणमिति ठञि प्राप्ते तस्य च लुकि ईकन्विधीयते। केवलायाश्चेति। ठध्यर्द्धपूर्वद्विगोःऽ इत्यधिकारात्केवलाया न प्राप्नोतीति वचनम्। अथाध्यर्धपूर्वेति न सम्बध्येत, ततः केवलायामीकनश्चरितार्थत्वादध्यर्धपूर्वद्विगोर्लुक् प्राप्नोति, दीर्घोच्चारणं किमर्थं नेकनेवोच्येत, सवर्णदीर्घत्वे सति सिद्धम् ? यस्येतिलोपः प्राप्नोति, इकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथा कनमेव विदध्यात्,'के' मःऽ इति ह्रस्वत्वे कृते सति सिद्धम्। अवग्रहः प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥