5-3-37 आहि च दूरे प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः दक्षिणात् आच्
दक्षिणात् सप्तमी-प्रथमाभ्यः दिक्-देश-कालेषु दूरे आहिः आच् च
'दक्षिण' शब्दः यदा 'दूरस्था दिशा' उत 'दूरस्थम् स्थानम्' एतयोः अर्थयोः प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आहि' तथा 'आच्' प्रत्ययौ स्वार्थे विधीयेते ।
दक्षिणशब्दादाहिः प्रत्ययो भवत्यस्तातेरर्थे, चकारादाच् दूरे चेदवधिमानवधेर्भवति। दक्षिणाहि वसति। दक्षिणा वसति। दक्षिणाहि रमणीयम्। दक्षिणा रमणीयम्। दूर इति किम्? दक्षिणतो वसति। अपञ्चम्या इत्येव — दक्षिणत आगतः॥
दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥
'दिशा' तथा 'देश' एतयोः अर्थयोः प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते ; तस्य अपवादेन <<दक्षिणादाच्>> 5.3.36 इत्यनेन दक्षिण-शब्दात् 'आच्' प्रत्यये विहिते, 'दूरे' इत्यस्मिन् सन्दर्भे 'दक्षिण' शब्दात् वर्तमानसूत्रेण 'आहि' इति प्रत्ययः अपि भवति । यथा - दक्षिणस्याम् दूरायाम् दिशि / दक्षिणे दूरे देशे / दक्षिणा दूरा दिक् / दक्षिणः दूरः देशः = दक्षिण + आच् / आहि [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + आ / आहि ['आच्' इत्यत्र चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।] → दक्षिण् + आ / आहि [<<यस्येति च>> 6.4.148 इति अकारलोपः] → दक्षिणा / दक्षिणाहि अत्र निर्मितौ 'दक्षिणा' तथा 'दक्षिणाहि' एतौ शब्दौ <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकौ भवतः ।यथा - 'दक्षिणाहि वसति / दक्षिणा वसति / दक्षिणा दिक् / दक्षिणाहि दिक्' - आदयः । ज्ञातव्यम् - 1. वस्तुतस्तु अस्मिन् सूत्रे 'दिक्-देश-कालेषु' इति सम्पूर्णः शब्दः अनुवर्तते, परन्तु 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । 2. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । पञ्चमीविभक्त्यन्तरूपस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 3. अत्र पाठिते 'आच्' प्रत्यये चकारस्य 'इत्संज्ञा' न भवति, यतः चकारस्य इत्संज्ञायाः किमपि प्रयोजनमत्र न विद्यते । सामान्यरूपेण चित्-प्रत्यये कृते समुदायस्य <<तद्धितस्य>> 6.1.164 इत्यनेन अन्तोदात्तत्वं विधीयते । परन्तु 'आच्' प्रत्ययस्य आकारः <<आद्युदात्तश्च>> 1.3.3 इत्यनेनैव उदात्तत्वं प्राप्नोति, अतः 'आच्' इत्यत्र चकारस्य स्वरनिर्देशार्थम् न किञ्चित् प्रयोजनम् । अत्र चकारस्य ग्रहणम् 'आच्' इति प्रत्ययस्य अनेभ्यः 'आ' प्रत्ययेभ्यः भिन्नरूपेण ग्रहणार्थमस्ति । <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> 2.3.29 इति सूत्रम् 'आच्' प्रत्ययस्य विषये विधानम् करोति, अनेष्याम् 'आ' प्रत्ययानाम् विषये (यथा - टाप्, टा, डा - आदयः) न । अतः पाणिनिः <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> 2.3.29 इत्यत्र 'आच्' इति विशिष्टम् निर्देशं कर्तुम् इच्छति, तदर्थमेव चकारस्य ग्रहणम् वर्तमानसूत्रे कृतमस्ति ।
<<आहि च दूरे>> - आहि च दूरे ।दक्षिणाशब्दा॑दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः ।
चकारादाच्चेति। अन्यथा दूरे विवक्षिते विशेषविहित आहिरेव स्यात् ॥