अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते

2-3-29 अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते अनभिहिते पञ्चमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्य आरात् इतर ऋते दिक्छब्द अञ्चूत्तरपद आच् आहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति। अन्य इत्यर्थग्रहणम्। तेन पर्यायप्रयोगेऽपि भवति। अन्यो देवदत्तात्। भिन्नो देवदत्तात्। अर्थान्तरं देवदत्तात्। विलक्षणो देवदत्तात्। आराच्छब्दो दूरान्तिकार्थे वर्तते। तत्र <<दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्>> २.३.३४ इति प्राप्ते पञ्चमी विधीयते। आराद् देवदत्तात्। आराद् यज्ञदत्तात्। इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते। इतरो देवदत्तात्। ऋत इत्यव्ययं वर्जनार्थे। ऋते देवदत्तात्। ऋते यज्ञदत्तात्। दिक्शब्दः — पूर्वो ग्रामात् पर्वतः। उत्तरो ग्रामात्। पूर्वो ग्रीष्माद् वसन्तः। उत्तरो ग्रीष्मो वसन्तात्। दिक्छब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनापि दिक्छब्देन योगे यथा स्यात्, इतरथा हि दिग्वृत्तिनैव योगे स्यात् — इयमस्याः पूर्वेति। इह तु न स्यात् — अयमस्मात् पूर्वः काल इति। अञ्चूत्तरपद — प्राग् ग्रामात्। प्रत्यग् ग्रामात्। ननु चायमपि दिक्शब्द एव? <<षष्ठ्यतसर्थप्रत्ययेन>> २.३.३० इति वक्ष्यति , तस्यायं पुरस्तादपकर्षः। आच् — दक्षिणा ग्रामात्। उत्तरा ग्रामात्। आहि — दक्षिणाहि ग्रामात्। उत्तराहि ग्रामात्॥

Siddhanta Kaumudi

Up

एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् <{SK83}> इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ <{SK609}> इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी <{SK587}> इति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः <{SK666}> इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> - अन्यारात् । युक्त इति भावे क्त इत्याह-एभिर्योगे इति । अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह — अन्येत्यर्थग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थकशब्दयोगे पञ्चमीति फलितम् । तर्हितरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह — इतरग्रहणं प्रपञ्चार्थमिति ।पचि विस्तारे॑ । अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति । भेदवान्विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्ठपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाऽभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । 'आराद्दूरसमीपयोः' इत्यमरः । ऋते कृष्णादिति । 'ऋते' इत्येकारान्तमव्ययम् । 'ऋते वर्जने' इत्यमरः । कृष्मस्य वर्जने सुखं नास्तीत्यर्थः ।क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते॑ इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः ।ततोन्यत्रापि दृश्यते॑ इति वा द्वितीया ।ऋते द्वितीया चे॑ति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति — पूर्वो ग्रामादिति । ग्रासावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननुचैत्रात्पूर्वः फाल्गुन॑ इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाऽभावात्कथं तद्योगे पञ्चमीत्यत आह — दिशि दृष्ट इति । रूढआ दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते नत्वैन्द्रीककुबादयः । संप्रतीति । कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह — अवयववाचीति । तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं पराभृशति । द्विरुक्तस्य परं=परावयवभूतमाम्रेहितमिति तदर्थः । पूर्वं कायस्येति । शसीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुरुत्तरपदं यस्य स अञ्चूत्तरपदः=प्रागादिदिक्छब्दः, नतु सध्र्यङ् इत्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्र्यङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह — अञ्चूत्तरपदस्येति.॒षष्ठतसर्थे॑त्नन्तरंपरत्वात्प्राप्ता॑मिति शेषः । प्राक् प्रत्याग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । अच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्राभावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । 'आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपिषष्ठतसर्थे॑ति षष्ठीं बाधितुं पृथग्ग्रहणम् । नन्वेवमपिभवात्प्रभृत्यारभ्य वा सेव्यो हरिः॑ इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाऽभावादित्यत आह — अपादाने इति । प्रभृतियोगे इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि — ॒अपादाने पञ्चमी॑ति सूत्रे भाष्येयतश्चाध्वकालनिमानमि॑ति वार्तिकं पठित्वा कार्तिक्या आग्रहायणी मासे इत्युदाहृत्यइदं न वक्तव्यमि॑ति तद्वार्तिकप्रत्याख्यानमुपक्षिप्यइदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे॑ इत्युक्तम् । प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृताप्रभृत्यर्थकशब्दयोगे पञ्चमी॑ति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । एवंच प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव चकार्तिक्याः प्रभृति॑ इति भाष्यव्याख्यावसरे 'तत आरभ्येत्यर्थ' इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत्सर्वमभिप्रेत्योदाहरति — भवात्प्रभृत्यारभ्य वेति । भवः=उत्पत्तिः । आरभ्येत्यस्यावधिं परिगृह्रेत्यर्थः । प्रभृतीत्यव्ययमप्येतदर्थकमेव । भवमवधिं परिगृह्र हरिः सेव्य इत्यर्थः । उत्तपत्तिक्षणात्मकपूर्ववधिकोत्तरकाले सर्वदा आमरणं हरिः सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात्पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दार्थस्यावधिं परिगृह्रेत्यस्यावध्यादिघटित्वेन क्रियात्वाऽभावात् । अपपरीति । बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्यअपपरिबहिरञ्चवः पञ्चम्या॑ इति समासविधानाद्बहिश्शब्दयोगे पञचमी विज्ञायते इत्यर्थः । इदंचअपपरी॑ति सूत्रे भाष्ये स्पष्टम् । 'करस्य करमो बहिः' इति त्वसाध्वेव ।ज्ञापकसिद्धं न सर्वत्रे॑ति वा कथञ्चित्समाधेयम् ।

Padamanjari

Up

अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ अन्य इत्यथेग्रहणमिति। व्याख्यानात्। निर्द्दिश्यमानप्रतियोगीति। यथा देवदतयज्ञदतयोः प्रकृतयोराह - देवदतः शूरः, इतरः कातर इति; तस्यान्यार्थान्तर्भावोऽस्तीति चिन्त्यम्। ऋते यज्ञदतादिति। कथं यत्किञ्चिद्राजसूयमृते सोममिति? छान्दसत्वात्, कथं'न मामृते राम बाली' इति? क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतेऽ इति च? निरंकुशाः कवयः। शब्दग्रहणमिति। सति हि तस्मिन् दिशि द्दष्टः शब्दो दिक्शब्द इत्युतरपदलोपी समासो लभ्यते, तेन यदा कदाचिद्दिशि द्दष्टेन संप्रति देशकालवर्तिनापि योगे भवति - ग्रामात्पूर्वो देशश्चैत्रात्पूर्वः फाल्गुन इति। अवयववाचिभिस्तु योगे न भवति - पूर्व कायस्येति,'तस्य परमाम्रेडितम्' इति निर्देशात्। ननु चायमपीति। सध्«अङ् देवदतेनेत्यादावदिक्शब्दार्थमञ्चूतरपदग्रहणं न भवति, दिक्शब्दैः साहचर्यादस्यापि दिक्शब्दस्यैव ग्रहणादिति भावः। दक्षिणेति।'दक्षिणादाच्' ; आहि च दूरेऽ उतराच्चऽ इत्याजाही प्रत्ययौ॥