उत्तराच्च

5-3-38 उत्तरात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः आच्

Sampurna sutra

Up

उत्तरात् सप्तमी-प्रथमाभ्यः दिक्-देश-कालेषु दूरे आहिः आच् च

Neelesh Sanskrit Brief

Up

'उत्तर' शब्दः यदा 'दूरस्था दिशा' / 'दूरस्थम् स्थानम्' / 'दूरस्थः कालः' एतेषु अर्थेषु प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आहि' तथा 'आच्' प्रत्ययौ स्वार्थे विधीयेते ।

Kashika

Up

उत्तरशब्दादाजाही प्रत्ययौ भवतोऽस्तातेरर्थे, दूरे चेदवधिमानवधेर्भवति। उत्तरा वसति। उत्तराहि वसति। उत्तरा रमणीयम्। उत्तराहि रमणीयम्। दूर इत्येव — उत्तरेण प्रयाति। अपञ्चम्या इत्येव — उत्तरादागतः॥

Siddhanta Kaumudi

Up

उत्तराहि । उत्तरा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दिशा', 'देश' तथा 'काल' एतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते ; तस्य अपवादेन 'दूरे' इत्यस्मिन् सन्दर्भे 'उत्तर' शब्दात् वर्तमानसूत्रेण 'आहि' तथा 'अाच्' एतौ प्रत्ययौ भवतः । यथा - उत्तरस्याम् दूरायाम् दिशि / उत्तरे दूरे देशे / उत्तरा दूरा दिक् / उत्तरः दूरः देशः = उत्तर + आच् / आहि [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → उत्तर + आ / आहि ['आच्' इत्यत्र चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।] → उत्तर + आ / आहि [<<यस्येति च>> 6.4.148 इति अकारलोपः] → उत्तरा / उत्तराहि अत्र निर्मितौ 'उत्तरा' तथा 'उत्तराहि' एतौ शब्दौ <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकौ भवतः ।यथा - 'उत्तराहि वसति / उत्तरा वसति / उत्तरा विद्यते / उत्तराहि विद्यते - आदयः । ज्ञातव्यम् - पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । पञ्चमीविभक्त्यन्तरूपस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

<<उत्तराच्च>> - उत्तराच्च ।आच् आहि चे॑ति शेषः । अतसुचा आतिना च चत्वारि रूपाणि ।

Padamanjari

Up

आजाही प्रय्ययौ भवत इति। यद्यप्याहिरनन्तरः, तथापि चकारेण व्यवहितस्यापि आचः समुच्चय इति भावः ॥