अधुना

5-3-17 अधुना प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले इदमः

Sampurna sutra

Up

अधुना (इति निपात्यते)

Neelesh Sanskrit Brief

Up

'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते ।

Kashika

Up

अधुनेति निपात्यते। इदमोऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना॥

Siddhanta Kaumudi

Up

इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य <{SK311}> इति लोपः । अधुना ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'अधुना' इत्यस्य अव्ययस्य निपातनम् क्रियते । 'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते । अस्य प्रक्रिया व्याख्यानेषु द्वयोः प्रकारयोः दीयते - [अ] 'अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते - अस्मिन् काले इत्येव = अस्मिन् + धुना ['अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते] → इदम् + धुना [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → अ + धुना ['इदम्' शब्दस्य 'अश्' इति आदेशः निपात्यते । शित्त्वात् सर्वादेशः] → अधुना [आ] 'अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते - अस्मिन् काले इत्येव = अस्मिन् + अधुना ['अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते] → इदम् + अधुना [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → इ + अधुना [<<इदमः इश्>> 5.3.3 इति इश्-आदेशः । शकारस्य इत्संज्ञा । शित्वात् सर्वादेशः] → X + अधुना [<<यस्येति च>> 6.4.148 इति इकारलोपः] → अधुना अत्र निर्मितः 'अधुना' शब्दः यदि प्रत्ययवत् दृश्यते तथापि इदम् पदमस्तीति स्मर्तव्यम् ।

Balamanorama

Up

<<अधुना>> - अधुना । 'इदम' इति, सप्तम्या॑ इति, 'काले' इति चानुवर्तते । तदाह — इदम इति । इशिति । 'इदम इ' शित्यनेने॑ति शेषः । अधुनेति ।इय॑दितिवत्प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताःउदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते ।ञपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।॑ इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः ।

Padamanjari

Up

इदमोऽशू भावो धुना च प्रत्यय इति। तत्र ठूडिदम्ऽ इत्यादिना विभक्तिस्वरः, स च ठादेः परस्यऽक इत्यादेर्भवति। भाष्ये त्वधुनाप्रत्यय आश्रितः, तत्रेदम इशो यस्येतिलोपः, निपातनाच्च मध्योदातत्वम् ॥