5-2-97 सिध्मादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अन्यतरस्याम्
'तद् अस्य, अस्मिन् अस्तीति' (इति) सिध्मादिभ्यः अन्यतरस्याम् लच्, मतुँप्
सिध्मादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः विकल्पेन लच्-प्रत्ययः भवति, पक्षे मतुँप्-प्रत्ययः विधीयते ।
लजन्यतरस्यामिति वर्तते। सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। सिध्मलः, सिध्मवान्। गडुलः, गडुमान्। अन्यतरस्यांग्रहणेन मतुप् समुच्चीयते न तु प्रत्ययो विकल्प्यते। तस्मादकारान्तेभ्य इनिठनौ प्रत्ययौ न भवतः॥ सिध्म। गडु। मणि। नाभि। जीव। निष्पाव। पांसु। सक्तु। हनु। मांस। परशु। पार्ष्णिधमन्योर्दीर्घश्च (ग०सू० १२६)। पार्ष्णीलः। धमनीलः। पर्ण। उदक। प्रज्ञा। मण्ड। पार्श्व। गण्ड। ग्रन्थि। वातदन्तबलललाटानामूङ् च (ग०सू० १२७)। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे (ग०सू० १२८)। जटालः। घटालः। कलालः। सक्थि। कर्ण। स्नेह। शीत। श्याम। पिङ्ग । पित्त। शुष्क। पृथु। मृदु। मञ्जु। पत्र। चटु। कपि। कण्डु। संज्ञा। क्षुद्रजन्तूपतापाच्चेष्यते (ग०सू० १२९)। क्षुद्रजन्तु — यूकालः। मक्षिकालः। उपताप — विचर्चिकालः। विपादिकालः। मूर्छालः। सिध्मादिः॥
लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (गणसूत्रम् -) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; सिध्मादिगणस्य शब्देभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव । सिध्मादिगणः अयम् - सिध्म, गडु, मणि, नाभि, जीव, निष्पाव, पांसु, सक्तु, हनु, मांस, परशु, पार्ष्णिधमन्योर्दीर्घश्च (गणसूत्रम्), पर्ण, उदक, प्रज्ञा, मण्ड, पार्श्व, गण्ड, ग्रन्थि, वातदन्तबलललाटानामूङ् च (गणसूत्रम्), जटाघटाकलाः क्षेपे (गणसूत्रम्), सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, शुष्क, पृथु, मृदु, मञ्जु, पत्र, चटु, कपि, कण्डु, संज्ञा, क्षुद्रजन्तूपतापाच्च इष्यते (गणसूत्रम्) । अस्मिन् गणे केचन अदन्तशब्दाः अपि सन्ति । एतेभ्यः लच्-प्रत्ययः न क्रियते चेत् औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति, न हि <<अत इनिठनौ>> 5.2.115 इत्यनेन इनि/ठन्-प्रत्ययौ । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'मतुँप्' इत्यस्य विशिष्टरूपेण अनुवृत्तिः स्वीक्रियते । कानिचन उदाहरणानि एतादृशानि - 1. सिध्मः (कश्चन चर्मरोगः) अस्य अस्ति सः = सिध्म + लच् → सिध्मलः । पक्षे <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> 8.2.9 इत्यनेन मकारस्य वकारादेशं कृत्वा 'सिध्मवान्' इति अपि रूपं सिद्ध्यति । 2. गडु (hump / hunch) अस्य अस्ति सः गडुलः गडुमान् वा मनुष्यः । 3. पांसु (गोमय /dung / manure) अस्मिन् अस्ति तत् पांसुलम् पांसुमत् वा स्थानम् । 4. प्रज्ञा अस्य अस्ति सः प्रज्ञालः प्रज्ञावान् वा पुरूषः । 5. शीतमस्मिन् अस्ति सः शीतलः शीतः वा वायुः । ('शीत' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'शीत' इत्येव प्रातिपदिकं सिद्ध्यति ) । 6. मञ्जु (charm) यस्मिन् अस्ति सः मञ्जुलः मञ्जुः वा स्वरः । ('मञ्जु' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'मञ्जु' इत्येव प्रातिपदिकं सिद्ध्यति ) । 7. कपि (brown) यस्याः अस्ति सा कपिला कपिः वा धेनुः । ('कपि' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'कपि' इत्येव प्रातिपदिकं सिद्ध्यति ) । अस्मिन् गणे कानिचन गणसूत्राणि अपि उच्यन्ते । तानि एतादृशानि - 1. पार्ष्णि-धमन्योः दीर्घः च (गणसूत्रम्) - 'पार्ष्णि' (= heel) तथा धमनि (= pipe / vein) एतयोः शब्दयोः अस्मिन् गणे ग्रहणं भवति, तथा च एताभ्याम् लच्-प्रत्यये परे अङ्गस्य दीर्घादेशः अपि भवति । यथा - पार्ष्णिः अस्य अस्ति सा पार्ष्णीला उपानद् । धमनिः अस्य अस्ति तत् धमनीलम् हृदयम् । 2. वात-दन्त-बल-ललाटानाम् ऊङ् च (गणसूत्रम्) - वात, दन्त, बल, तथा ललाट - एतेभ्यः शब्देभ्यः लच्-प्रत्ययः भवति, तथा च एतेषाम् 'ऊङ्' इति आदेशः भवति । ङित्वात् अयमादेशः अन्तिमवर्णस्य स्थाने एव विधीयते । यथा - वातः अस्य अस्ति सः वातूलः । एवमेव - दन्तूलः, बलूलः, ललाटूलः । 3. जटा-घटा-कलाः क्षेपे (गणसूत्रम्) - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः 'क्षेप' (= निन्दा / insult ) अस्मिन् अर्थे लच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटालः मूढः । घटा अस्य अस्ति सः घटालः । कला अस्य अस्ति सः कलालः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र 'क्षेप' इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । विशेषः - एतत् गणसूत्रम् <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> 5.2.100 इत्यत्र पिच्छादिगणे पुनः पाठ्यते । परन्तु तत्र एतेभ्यः शब्देभ्यः इलच्-प्रत्ययः विधीयते । 4. क्षुद्रजन्तु-उपतापात् च इष्यते (गणसूत्रम्) - ये शब्दाः क्षुद्रजन्तूनाम् (micro-organisms, insects) यथा उपतापादीनाम् (pain, injury, bruise आदयः) निर्देशं कुर्वन्ति तेषामपि अस्मिन् गणे समावेशः भवति । यथा - [अ] क्षूद्रजन्तवः - यूका (lice) अस्मिन् अस्ति सः यूकालः । मक्षिका (bee) अस्मिन् अस्ति सः मक्षिकालः (bee hive) । [आ] उपतापादयः - विचर्चिका (itch) अस्य अस्ति सः विचर्चिकालः । मूर्च्छा (fainting) अस्य अस्ति सः मूर्च्छालः । विपादिका (certain foot-disease) अस्य अस्ति सः विपादिकालः । एतेभ्यः सर्वेभ्यः शब्देभ्यः पक्षे मतुँप्-प्रत्ययः अपि भवति । यथा - पार्ष्णिवान्, दन्तवान्, जटावान् - आदयः । विशेषः - 1. सिध्मादिगणः आकृतिगणः अस्ति, अतः अस्मिन् गणे केचन अन्ये शब्दाः अपि भवितुमर्हन्ति । यथा - कृष्ण, पेश, पक्ष्मन्, श्री, श्लेश्मन्, कुश, धारा - आदयः । 2. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् '<<तद्धितस्य>> 6.1.164 इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'सिध्मल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि <<आद्युदात्तश्च>> 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु प्रक्रियायामग्रे <<स्वरितो वाऽनुदात्ते पदादौ>> 8.2.6 इत्यनेन सः स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति ।
<<सिध्मादिभ्यश्च>> - सिध्मादिभ्यश्च । लज्वा स्यादिति । 'मत्वर्थे' इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्,लजभावे मतुबेव भवति, नतु अत इनिठनौ॑ इत्येतदर्थ समुच्चयविधानात् । तदाह — तेनेति । सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पाष्ण इत्यादयः सिध्मादिषु पठिताः । एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति । सिघ्मादिगणसूत्रमिदम् । एभ्यो लच्, प्रकृतेरूङ् चादेशः । ङकारस्तु #आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः । एवं दन्तूलः, बलूलः ललाटूलः ।
अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्तत इत्यर्थः। तथा च वार्तिकम् -'लजन्यतरस्यामिति समुच्चयः' इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह'तुन्दादिभ्य इलच्च' इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठयाः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-ठन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायतेऽ इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम् - इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ।लेरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ।लेरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चतर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चितुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा'केशाद्वो' न्यतरस्याम्ऽ इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति। पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति - वातूलः, दन्तूलः, बलूलः, ललाटूअलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति - जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापःउरोगः। विपादिकाल इति।'पादस्फोटो विपादिका' । सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ॥