5-2-98 वत्सांसाभ्यां कामबले प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अन्यतरस्याम्
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
'तत् अस्य, अस्मिन् अस्तीति' (इति) वत्स-अंसाभ्याम् काम-बले लच्
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
'काम' अस्मिन् अर्थे प्रयुज्यमानात् 'वत्स' शब्दात् ; तथा च 'बल' अस्मिन् अर्थे प्रयुज्यमानात् 'अंस' शब्दात् प्रथमासमर्थात् 'अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे लच्-प्रत्ययः भवति ।
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
वत्सांसशब्दाभ्याम् लच् प्रत्ययो भवति यथासङ्ख्यं कामवति बलवति च अर्थे। वत्सलः। अंसलः। वृत्तिविषये वत्सांसशब्दौ स्वभावात् कामबलयोर्वर्तमानौ तद्वति प्रत्ययमुत्पादयतः। न ह्यत्र वत्सार्थः अंसार्थो वा विद्यते। वत्सलः इति स्नेहवानुच्यते, वत्सलः स्वामी, वत्सलः पिता इति। अंसलः इति च उपचितमांसो बलवानुच्यते। न च अयमर्थो मतुपि सम्भवतीति नित्यं लजेव भवति। अन्यत्र अंसवती गौः, अंसवान् दुर्बलः।
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
अनेन सूत्रेण 'वत्स' तथा 'अंस' एताभ्यां शब्दाभ्याम् 'लच्' प्रत्ययः पाठ्यते । क्रमेण पश्यामः -
यथा - वत्समस्य अस्ति सः = वत्स + ल → वत्सलः पिता । कामवान् इत्यर्थः ।
यथा - अंसः अस्य अस्ति सः = अंस + ल → अंसलः पुरुषः । बलवान् इत्यर्थः ।
ज्ञातव्यम् -
वस्तुतः 'वत्स' शब्दः 'पुत्रः' अस्मिन् अर्थे तथा 'अंस' शब्दः 'स्कन्ध' अस्मिन् अर्थे भाषायाम् प्रयुज्यते । परन्तु एतयोः शब्दयोः एतौ अर्थौ अस्मिन् सूत्रे न स्वीक्रियेते । अस्मिन् सूत्रे 'वत्स' शब्दस्य अर्थः 'काम' इति, तथा 'अंस' शब्दस्य अर्थः 'बल' इति गृह्यते । एतौ अर्थौ अस्य सूत्रस्य प्रयोगार्थम् एव प्रयोक्तव्यौ, न हि अन्यत्र ।
यद्यपि अस्मिन् सूत्रे 'कामबले' इति उच्यते, तथापि काशिकाकारः तथा कौमुदीकारः द्वावपि अस्य शब्दस्य अर्थः 'कामवति / बलवति' इति कुरुतः । इत्युक्ते, तद्धितप्रत्ययविधानमत्र 'कामः' अस्य अस्मिन् वा अस्ति' (= कामवान्) तथा 'बलमस्य अस्मिन् वा अस्ति (= बलवान्) अस्मिन् अर्थे भवति ।
अस्मिन् सूत्रे 'मतुँप्' इति न अनुवर्तते । अत्र केवलम् 'लच्' इति प्रत्ययः उच्यते ।
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
वत्सांसाभ्यां कामबले - वत्सासाभ्यां लच्स्यादिति । 'मत्वर्थे' इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह — कामवति बलवति चेति ।
index: 5.2.98 sutra: वत्सांसाभ्यां कामबले
कामवति बलवति चेति। मत्वन्तनिर्द्देशेन कामबलशब्दयोरर्शाअद्यच्प्रत्ययान्ततां दर्शयति। ननु च वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयो; तत्कथं ताभ्यां लजन्ताभ्यां कामवान् बलवांश्चोच्यते ? इत्यत आह - वृत्तिविषय इति। कुत एतद् ज्ञायते ? इत्याह-न ह्यत्रेति। वाक्ये योऽनयोः प्रासिद्धोऽर्थः स वृतौ नास्तीत्यर्थ। यस्त्वस्ति तं दर्शयतदि - वत्सल इति स्नेहवानुप्यत इति। स्नेहःउरागः, कामः। सर्वत्रैवात्र प्रकरणे मतुप्समुच्चीयत इत्यत्रापि मतुपा भवितव्यमिति शङ्कामपनयति - न चेति। अनेनैव हेतुना वाक्यमपि न भवति। अत्र वत्सांसब्दौ द्वौ, अस्यास्मिन्निति च प्रत्ययर्थावपि द्वावेव तथापि यथासंख्यं न भवति, कथम् ? अजाद्यदन्तं लघ्वक्षरं पूर्वं निपततीत्यंसबलशब्दयोः पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नात्। एवं सर्वत्रैवात्र प्रकरणे द्रष्टव्यम् ॥