लोमादिपामादिपिच्छादिभ्यः शनेलचः

5-2-100 लोमादिपामादिपिच्छादिभ्यः शनेलचः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) लोमादि-पामादि-पिच्छादिभ्यः श-न-इलचः, मतुँप् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः लोमादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः श-प्रत्ययः, पामादिगणस्य शब्देभ्यः न-प्रत्ययः, तथा पिच्छादिगणस्य शब्देभ्यः इलच्-प्रत्ययः भवति । पक्षे सर्वेभ्यः गणेभ्यः मतुँप् प्रत्ययः अपि विधीयते ।

Kashika

Up

लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासंख्यं श न इलच् इत्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च। लोमादिभ्यः शो भवति। लोमशः, लोमवान्। पामादिभ्यो नो भवति। पामनः, पामवान्। पिच्छादिभ्य इलच् भवति। पिच्छिलः, पिच्छवान्। उरसिलः, उरस्वान्॥ लोमन्। रोमन्। वल्गु। बभ्रु। हरि। कपि। शुनि। तरु। लोमादिः॥ पामन्। वामन्। हेमन्। श्लेष्मन्। कद्रु। बलि। श्रेष्ठ। पलल। सामन्। अङ्गात् कल्याणे (ग०सू० १३०)। शाकीपलालीदद्र्वां ह्रस्वत्वं च (ग०सू० १३१)। विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (ग०सू० १३२)। लक्ष्म्या अच्च (ग०सू० १३३)। पामादिः॥ पिच्छ। उरस्। ध्रुवका। क्षुवका। जटाघटाकलाः क्षेपे (ग०सू० १३४)। वर्ण। उदक। पङ्क। प्रज्ञा। पिच्छादिः॥

Siddhanta Kaumudi

Up

लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (गणसूत्रम् -) अङ्गात्कल्याणे । अङ्गना ॥ (गणसूत्रम् -) लक्ष्म्या अच्च । लक्ष्मणः ।<!विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः !> (वार्तिकम्) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥

Laghu Siddhanta Kaumudi

Up

लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। <=अङ्गात्कल्याणे=> (गणसूत्रम्) । अङ्गना । <=लक्ष्म्या अच्च=> (गणसूत्रम्) । लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥

Neelesh Sanskrit Detailed

Up

<<तदस्यास्त्यस्मिन्नति मतुँप्>> 5.2.94 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः उच्यते । एतयोः एव अर्थयोः त्रयाणाम् गणानाम् विषये वर्तमानसूत्रेण त्रयः प्रत्ययाः विकल्पेन उच्यन्ते । क्रमेण पश्यामः - 1. लोमादिगणः - लोमन्, रोमन्, वल्गु, बभ्रु, हरि, कपि, शुनि, तरु। एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'श' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - अ) लोम्नः (hairs) अस्य अस्मिन् वा सन्ति सः = लोमन् + श → लोमश [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] लोम्नः यस्य सन्ति सः लोमशः (furry / hairy इत्यर्थः) । पक्षे - 'लोमवान्' इति अपि सिद्ध्यति । आ) रोम्णः (hairs) अस्य अस्मिन् वा सन्ति सः = रोमन् + श → रोमश । (furry / hairy इत्यर्थः) । पक्षे 'रोमवान्' इत्यपि सिद्ध्यति । विशेषः - 1. 'गिरि' शब्दः अपि अस्मिन् गणे स्वीक्रियते इति <<अधिकरणे शेतेः>> 3.2.15 इत्यत्र भट्टोजीदिक्षितः वदति । गिरिः अस्य अस्ति इति गिरिशः । कुमारसम्भवे 'गिरिशमुपचचार' इत्यत्र अयमेव शब्दः प्रयुक्तः अस्ति । 2. 'श' प्रत्यये शकारः केनापि सूत्रेण इत्संज्ञकः न भवतीति स्मर्तव्यम् । 2. पामादिगणः - पामन्, वामन्, हेमन्, श्लेष्मन्, कद्रु, बलि, श्रेष्ठ, पलल, सामन्, अङ्गात् कल्याणे (गणसूत्रम्), शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्), विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (गणसूत्रम्), लक्ष्म्या अच्च (गणसूत्रम्) । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'न' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - अ) पामा (scab / itch) अस्य अस्ति सः = पामन् + न → पाम + न [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पामनः । पामा अस्य अस्ति सः पामनः पक्षे 'पामवान्' इति अपि भवति । आ) वाम अस्य अस्ति सः वामनः । पक्षे 'वामवान्' इति अपि भवति । अस्मिन् गणे कानिचन गणसूत्राणि अपि दीयन्ते । तानि एतादृशानि - अ) अङ्गात् कल्याणे (गणसूत्रम्) । 'कल्याण' (fair / beautiful) इत्यनेन विशिष्टः 'अङ्ग'शब्दः अस्मिन् गणे स्वीक्रियते । कल्याणमङ्गम् यस्याः सा = अङ्ग + न + टाप् → अङ्गना । पक्षे 'अङ्गवान्' / 'अङ्गवती' एते रूपे अपि भवतः । आ) शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्) । शाकी (group of vegetables), पलाली (stem) यथा दद्रू (skin-disease) एतेषाम् शब्दानामस्मिन् गणे समावेशः भवति, तथा च 'न'प्रत्यये परे तेषां ह्रस्वादेशः अपि विधीयते । यथा - i) शाकी अस्य अस्मिन् अस्ति सः शाकिनः । ii) पलाली अस्य अस्मिन् अस्ति वा पलालिनः । iii) दद्रूः अस्य अस्मिन् अस्ति सः दद्रुणः । पक्षे शाकीमान्, पलालीमान्, दद्रूमान् - एते शब्दाः अपि सिद्ध्यन्ति । (मतुँप्-प्रत्यये परे ह्रस्वादेशः न भवति, यतः गणसूत्रस्य प्रयोजनम् केवलम् न-प्रत्ययार्थम् एव अस्ति )। (इ) विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः (गणसूत्रम्) । इत्युक्ते, 'विष्वञ्च्' (one who traverses both sides इत्यर्थः) शब्दः अस्मिन् गणे समाविश्यते, तथा च 'विष्वञ्च्' शब्दात् न-प्रत्यये कृते प्रक्रियायाम् 'विषु + अञ्च्' इति सन्धिच्छेदं कृत्वा 'अञ्च्' इति यत् उत्तरपदम्, तस्य लोपः भवति । विष्वक् अस्य अस्ति सः = विषु + न → विषुण । पक्षे 'विश्वक्वान्' इति मतुँप्-प्रत्ययः अपि भवति । स्मर्तव्यम् - i) अस्मिन् सूत्रे 'विष्वक्' इति उच्यते । अयं शब्दः 'विष्वञ्च्' इत्यस्य प्रथमैकवचनमस्ति । अतः अत्र मूलप्रातिपदिकम् 'विष्वञ्च्' इति ज्ञेयम् । ii) अस्मिन् गणसूत्रे 'अकृतसन्धेः' इति उच्यते । अस्य अर्थः अयम् - 'विष्वञ्च्' शब्दस्य निर्माणे यत् सन्धिकार्यम् भवति, तस्मात् कार्यात् पूर्वम् प्रक्रियायाम् यत् उत्तरपदम् विद्यते, तस्य अत्र लोपः भवति । अतः अत्र कस्य लोपः भवतीति ज्ञातुमादौ 'विष्वञ्च्' शब्दः कथं सिद्ध्यति, तत् ज्ञेयम् । 'विष्वञ्च्' इति शब्दः 'विषु' उपपदात् 'अञ्च्' धातुम् प्रयुज्य तस्मात् 'क्विन्' प्रत्ययं कृत्वा सिद्ध्यति । 'विषु' इत्युक्ते 'दिशा' (directions), तथा 'अञ्च्' इति धातुः 'गच्छति' अस्मिन् अर्थे प्रयुक्तः अस्ति । विषु + अञ्च् + क्विन् → विष्वञ्च् । यः भिन्नासु दिशासु गच्छति, तस्य निर्देशः 'विष्वक्' इत्यनेन भवति ((The one who roams in two or more directions इत्यर्थः) । अत्र 'विषु' इति पूर्वपदम्, 'अञ्च्' इति उत्तरपदम् । अतः एतस्मात् शब्दात् अग्रे न-प्रत्यये कृते 'अञ्च्' इत्यस्य लोपं कृत्वा 'विषु + न → विषुण' इति शब्दः सिद्ध्यति । (ई) लक्ष्म्या अच्च (गणसूत्रम्) । 'लक्ष्मी' शब्दस्य अस्मिन् गणे समावेशः भवति, तथा च 'लक्ष्मी' शबदस्य न-प्रत्यये परे अकारादेशः भवति । लक्ष्मीः अस्य अस्ति सः = लक्ष्मी + न → लक्ष्मण । पक्षे 'लक्ष्मीवान्' इति मतुँप्-प्रत्ययः अपि भवति - । , 3) पिच्छादिगणः - पिच्छ, उरस्, घ्रुवका, क्षुवका, जटाघटाकलाः क्षेपे (गणसूत्रम्), वर्ण, उदक, पङ्क, प्रज्ञा । एतेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'इलच्' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । यथा - 1. पिच्छः (feather) अस्य अस्ति सः पिच्छ + इलच् → पिच्छिलः । पक्षे 'पिच्छवान्' इति अपि भवति । 2. उरः (chest) अस्य अस्ति सः उरस् + इलच् → उरसिलः । पक्षे 'उरस्वान्' इति अपि भवति । अस्मिन् गणे 'जटाघटाकलाः क्षेपे' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः 'क्षेप' (= निन्दा / insult ) अस्मिन् अर्थे इलच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटिलः मूढः । घटा अस्य अस्ति सः घटिलः । कला अस्य अस्ति सः कलिलः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र 'क्षेप' इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । विशेषः - एतत् गणसूत्रम् <<सिध्मादिभ्यश्च>> 5.2.97 इत्यत्र निर्दिष्टे सिध्मादिगणे अपि पाठितमस्ति । परन्तु तत्र एतेभ्यः शब्देभ्यः लच्-प्रत्ययः विधीयते ।

Balamanorama

Up

<<प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः>> - प्रज्ञाश्रद्धार्चाभ्योणः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाज्ज्ञाधातोः 'आतश्चोपसर्गे' इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानतन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः ।इगुपधे॑ति कः । प्रज्ञशब्दात्स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यं, तथा सति स्त्रिया ङीप्प्रसङ्गात् । तदाह — प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्चेति । अर्चा अस्यास्तीति विग्रहः ।वृत्तेश्चेति । वार्तिकमिदम् । 'मत्वर्थे णप्रत्यय' इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।

Padamanjari

Up

अङ्ग कल्याण इति। ठङ्गऽ इत्येतत् कल्याणविशिष्टेऽर्थे वर्तमानं प्रत्ययमुत्पादयति - कल्याणान्यङ्गान्यस्य अङ्गना, स्त्रिया एवाभिधानम्। कल्याण इति किम् ? अङ्गवती। शाकीपलालीदद्रवां ह्रस्वत्वं चेति। शाक्यादीनां नप्रत्ययो भवति ह्रस्वत्वं च-शाकिनम्, पलालिनम्। महच्छाकं शाकी, नानाजातीय एकसमाहारो वा। पलालक्षोदःउपलाली, भिन्नानि वा शलिकोद्रवादिपललानि।'दरिद्रातेर्यालोपश्च' इति दरिद्रातेरूकारः प्रत्ययो भवति, रिकाराकारयोश्च लोपः। दद्रूःउत्वग्रोगविशेषः, स यस्यास्ति स दद्रुणः। विष्वगिति। विष्वक्शब्दान्नप्रत्ययो भवति उतरपदलोपश्च, स चाकृतसन्देरकृतसन्धिकार्यस्य, अकृतयणादेशस्येत्यर्थः। विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्तीति विषुणःउ विषुषुवदाख्यः कालः, तस्य हि नानागतीनि दिनानि सन्ति, तदाश्रयत्वाद्दिवसान्तराणां न्यूनाधिकभावस्य। तथा मृत्युः, वयुः, अनवस्थितप्रकृतिर्मनुष्यादिश्च विषुणः, तत्र वृत्तिविषये गमनक्रियान्तर्भावाद्विष्वग्गमनमस्यास्कतीत्येवं वाक्यदेरभिदानमिच्छन्ति। यदि तु कृते यणादेशे उतरपदलोपः स्याद्, वलि लोपे सति विष्ण इति प्राप्नोति। लक्ष्म्या अच्चेति। लक्ष्मीशब्दान्नप्रत्ययो भवति अकअरश्चान्तादेशः, लक्षामीरस्यास्ति लक्ष्मणः। जटाघटाकलाः क्षेप इति। जटादयः क्षेपे गम्यमाने इलचमुत्पादयन्ति - जटिलः, घटिलः, कलिलः। क्षेपादन्यत्र जटावान् ॥