अत इनिठनौ

5-2-115 अतः इनिठनौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य अस्तीति' (इति) अतः इनिठनौ, मतुँप् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' अस्मिन् अर्थे प्रथमासमर्थेभ्यः अदन्तशब्देभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते ।

Kashika

Up

अकारान्तात् प्रातिपदिकादिनिठनौ प्रत्ययौ भवतः। दण्डी। दण्डिकः। छत्री। छत्रिकः। अन्यतरस्यामित्यधिकाराद् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्।

एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ॥

एकाक्षरात् तावत् — स्ववान्। खवान्। कृतः — कारकवान्। जातेः — व्याघ्रवान्। सिंहवान्। सप्तम्याम् — दण्डा अस्यां सन्ति दण्डवती शालेति। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यत इत्युक्तम्, तेन क्वचिद् भवत्यपि — कार्यी, हार्यी, तण्डुली, तण्डुलिक इति॥

Siddhanta Kaumudi

Up

दण्डी । दण्डिकः ॥

Laghu Siddhanta Kaumudi

Up

दण्डी। दण्डिकः॥

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । ह्रस्व-अकारान्तशब्दानां विषये अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः । यथा - 1. इनि-प्रत्ययः - अस्मिन् प्रत्यये नकारोत्तरः अकारः इत्संज्ञकः नास्ति, अपितु 'नकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायामस्य लोपः भवति, अतः 'इन्' इति प्रत्ययः प्रयुज्यते । यथा - अ) दण्डः अस्य अस्ति सः = दण्ड + इन् → दण्डिन् । <<यस्येति च>> 6.4.148 इति अकारलोपं कृत्वा रूपं सिद्ध्यति आ) छत्रः अस्य अस्ति सः = छत्र + इन् → छत्रिन् । (इ) कामः अस्य अस्ति सः = काम + इन् → कामिन् । (ई) चक्रमस्य अस्ति सः = चक्र + इन् → चक्रिन् । (उ) रथः अस्य अस्ति सः = रथ + इन् → रथिन् । एवमेव शार्ङिन्, गुणिन्, फलिन्, अधिकारिन् - एते शब्दाः अपि सिद्ध्यन्ति । एतेषाम् सर्वेषाम् रूपाणि त्रिषु अपि लिङ्गेषु भवन्ति - अ) पुंलिङ्गे अस्य रूपाणि 'शशिन्' शब्दवत् भवन्ति । यथा - दण्डी, दण्डिनौ, दण्डिनः । आ) स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन एते शब्दाः ङीप्-प्रत्ययं स्वीकुर्वन्ति, तथा च एतेषां रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - दण्डिनी दण्डिन्यौ दण्डिन्यः । (इ) नपुंसकलिङ्गे एतेषां प्रथमाद्वितीययोः रूपाणि 'दण्डि दण्डिनी दण्डीनि' इति भवन्ति । तृतीयातः आरभ्य पुंलिङ्गवत् एव रूपाणि जायन्ते । सम्बोधनस्य प्रथमैकवचने <!सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य:!> अनेन वार्त्तिकेन विकल्पेन नकारलोपं कृत्वा 'हे दण्डि' तथा 'हे दण्डिन्' इति रूपद्वयम् जायते । 2. ठन्-प्रत्ययः अस्मिन् प्रत्यये विद्यमानस्य ठकारस्य <<ठस्येकः>> 7.3.50 इत्यनेन इक्-आदेशः भवति । यथा - अ) दण्डः अस्य अस्ति सः = दण्ड + ठन् → दण्ड + इक → दण्डिक । <<यस्येति च>> 6.4.148 इति अकारलोपं कृत्वा रूपं सिद्ध्यति । आ) छत्रः अस्य अस्ति सः छत्रिकः । (इ) कामः अस्य अस्ति सः कामिकः । एवमेव गुणिकः, फलिकः, अधिकारिकः - आदयः शब्दाः अपि सिद्ध्यन्ति । एतेषाम् रूपाणि पुंलिङ्गे बाल-शब्दवत्, स्त्रीलिङ्गे माला-शब्दवत् तथा नपुंसकलिङ्गे फल-शब्दवत् भवन्ति । विशेषः - 1. सर्वेभ्यः अदन्तशब्देभ्यः वर्तमानसूत्रेण विकल्पेन मतुँप्-प्रत्ययः अपि भवति । तथा च, प्रक्रियायाम् <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> 8.2.9 इत्यनेन यवादिगणं विहाय अन्येभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः अपि भवति । यथा - दण्डः अस्य अस्ति सः दण्डवान्, बलमस्य अस्ति सः बलवान् - आदयः । 2. अनेन सूत्रेण 'अस्य अस्ति' इत्यस्मिन् षष्ठ्यर्थे एव 'इनि' तथा 'ठन्' प्रत्ययौ पाठ्येते । 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे (= सप्तम्यर्थे) एतौ प्रत्ययौ न भवतः । यथा - दण्डाः सन्ति अस्याम् शालायाम्' इत्यत्र एतौ प्रत्ययौ न भवतः । औत्सर्गिकः मतुँप्-प्रत्ययः तु भवत्येव । यथा - दण्डवती शाला । 3. <<द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः>> 5.2.128 इत्यस्मात् आरभ्य <<बलादिभ्यो मतुबन्यतरस्याम्>> 5.2.136 इति यावद्भिः सूत्रैः केभ्यश्चन शब्देभ्यः वर्तमानसूत्रस्य अपवादरूपेण केवलम् 'इनि' प्रत्ययविधानम् क्रियते (इत्युक्ते, ठन् तथा मतुँप्-प्रत्यययोः निषेधः भवति )। अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ!> । इत्युक्ते, वर्तमानसूत्रेण पाठितौ इनि/ठन्-प्रत्ययौ एकाक्षरस्य अङ्गस्य विषये, कृदन्तस्य अङ्गस्य विषये, जातिवाचकस्य अङ्गस्य विषये तथा च सप्तम्यर्थे न भवन्ति । उदाहरणानि एतानि - अ) एकाक्षरम् - यदि अङ्गे एकम् एव अक्षरम् (= प्रारम्भे कानिचन व्यञ्जनानि ; तदनन्तरम् एकः स्वरः) विद्यते, तर्हि तस्मात् अङ्गात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - स्वः अस्य अस्ति सः स्ववान् । खमस्य अस्ति सः खवान् । (आ) कृदन्तशब्दः - कृत्-प्रत्ययान्तम् यत् अङ्गम्, तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - कारकः अस्य अस्ति सः कारकवान् । लेखनमस्य अस्ति सः लेखनवान् । (इ) जातिवाचकः शब्दः - यदि अङ्गम् जातिवाचकमस्ति (indicates a species or a cast) तर्हि तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - व्याघ्रः अस्य अस्ति सः व्याघ्रवान् । शूद्रः अस्य अस्ति सः शूद्रवान् । (ई) सप्तम्यर्थै - वर्तमानसूत्रेण उक्तौ 'इनि' तथा 'ठन्' प्रत्ययौ केवलम् 'अस्य अस्ति' अस्मिन्नेव अर्थे प्रयुज्येते, न हि 'अस्मिन् अस्ति' इत्यर्थे । यथा, 'दण्डाः सन्ति अस्यां शालायाम्' इत्यत्र 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । विशेषः - केषुचन स्थलेषु कृदन्तेभ्यः / जातिवाचकेभ्यः शब्देभ्यः अपि इनि-प्रत्ययः तथा ठन्-प्रत्ययः कृतः दृश्यते । यथा - कार्यमस्य अस्ति सः कार्यी । तण्डुलाः अस्य सन्ति सः तण्डुलिकः - आदयः । एतादृशानाम् प्रयोगानाम् समर्थनार्थम् काशिकाकारः सूत्रे 'इति' एतम् शब्दमनुवृत्तिरूपेण 'विवक्षा' इत्यस्मिन् अर्थे स्वीकरोति, येन एते शब्दाः अपि साधुत्वं प्राप्नुवन्ति । भाष्यकारः तु 'अनभिधानात् न भविष्यति' इति उक्त्वा 'अस्य वार्त्तिकस्य आवश्यकता एव नास्ति' इति निदर्शयति ।

Balamanorama

Up

<<अत इनिठनौ>> - अत इनिठनौ । अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॑ इति भाष्यम् । एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां — दण्जा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।

Padamanjari

Up

अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति रसादिभ्यःऽ पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्। तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्तव्यं तपरकरणमित्युतरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्यर्थमित्युक्तम्, तत्र च ठेकाचःऽ इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ॥