स्वरितो वाऽनुदात्ते पदादौ

8-2-6 स्वरितः वा अनुदात्ते पदादौ पदस्य पूर्वत्र असिद्धम् अनुदात्तस्य एकादेशः उदात्तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुदात्ते पदादावुदात्तेन सह य एकादेशः स स्वरितो वा भवत्युदात्तो वा। सु उत्त्थितः — सू॑त्त्थितः, सूत्त्थि॑तः। र्र्वि ई््क्षते — वी॑क्षते, वीक्ष॑ते। वसुकः असि — व॒सु॒को॑ऽसि, व॒सु॒कोऽसि॑। सूत्त्थित इति सुशब्दः<<सुः पूजायाम्>>१.४.९४ इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सत्यव्ययपूर्वपदप्रकृतिस्वरत्वेन ६.२.२ आद्युदात्तत्वम्, शेषमनुदात्तम् ६.१.१५८ इति चानुदात्ते पदादावेकादेशो भवति। वीक्षते, वसुकोऽसीत्यत्रापि <<तिङ्ङतिङः>> ८.१.२८ इति निघाते कृतेऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणं विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यतीति। अनुदात्त इति किम् ? दे॒व॒द॒त्तोऽत्र॑। पदादाविति किम् ? वृ॒क्षौ। वृ॒क्षाः॥

Siddhanta Kaumudi

Up

अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्हृदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-<{SK86}> इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रादित्वात्समासे सतीति ।'प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः' इत्यस्य तु तत्रैव'स्वती पूजायाम्' इति प्रतिषेधः कृतः । गतिसमासस्त्वनाश्रितः;'गतिर्गतौ' इति निगातप्रसङ्गात् । वसुकशब्दः पूर्ववदन्तोदातः । स्वरितग्रहणं विस्पष्टार्थमिति । कथम् ? इत्याह - उदाते हीति । आन्तर्यत एव स्वरितो भविष्यतीति । यद्येवम्, तस्य सिद्धत्वाच्छेषनिघातः स्यात् - गाङ्गेऽनूप इति ? एकादेशस्य परं प्रत्यादिवद्भावादनूपशब्दोऽनुदातः प्राप्नोति, स्वरितग्रहणे तु सति अस्यासिद्धत्वाद्यथोक्तदोषाभावः । अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मान्न भवति - कन्यानूप इति ? कन्याशब्दः'कन्याराजन्यमनुष्याणामन्तः' इत्यन्तस्वरितः, ततः स्वरितानुदातयोरेकादेश आन्तर्यतः स्वरितः, तस्य सिद्धत्वातेन वर्ज्यमानता प्राप्नोति ? ततश्चात्र यः परिहारः स एव गाङ्गेऽनूप इत्यत्र भविष्यति । कः पुनरसौ ? पदद्वयाश्रयत्वेन एकादेशस्य बहिरङ्गत्वात्स्वरोऽपि तदीयो बहिरङ्गः, शेषनिघातस्तु एकपदाश्रयत्वात् स्वरोऽपि तदीयोऽन्तरङ्गः; ततः किम् ? ठसिद्धं बहिरङ्गमन्तरङ्गऽ ॥