5-2-136 बलादिभ्यः मतुप् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
'तत् अस्य, अस्मिन् अस्तीति' (इति) बलादिभ्यः इनिः, मतुँप् अन्यतरस्याम्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः बलादिगणस्य शब्देभ्यः 'इनि' तथा 'मतुँप्' प्रत्ययौ भवतः ।
बलादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन प्रकृत इनिः समुच्चीयते। बलवान्, बली। उत्साहवान्, उत्साही॥ बल। उत्साह। उद्भाव। उद्वास। उद्वाम। शिखा। पूग। मूल। दंश। कुल। आयाम। व्यायाम। उपयाम। आरोह। अवरोह। परिणाह। युद्ध। बलादिः॥
बलवान् बली । उत्साहवान् । उत्साही ॥
बलादिगणस्य शब्देभ्यः 'अस्य अस्ति' तथा अस्मिन् अस्ति' एतयोः अर्थयो' इनि यथा मतुँप् प्रत्ययौ भवतः । बलादिगणः अयम् - बल, उत्साह, उद्भाव, उद्वास, उद्वाम, शिखा, पूग, मूल, दंश, कुल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध । यथा - 1. बलं विद्यते अस्मिन् सः बलवान् बली वा । 2. उत्साहः विद्यते अस्मिन् सः उत्साही उत्साहवान् वा । 3. मूलम् विद्यते यस्य सः मूली मूलवान् वा ।
<<बलादिभ्यो मतुबन्यतरस्याम्>> - बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति — बलवान् बलीति । संज्ञायां मन्माभ्याम् । प्रथमिनीति ।पृथ्वादिभ्य इमनिज्वे॑ति इमनिजन्तः प्रथमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपिअनिनस्म॑न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते । प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः । दामिनीति । दामन्शब्दादिनौ टिलोपे ङीबिति भावः । मेति । मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः ।
अन्यतरस्यांग्रहणेनेत्यादि। पूर्ववत्समुच्चये तस्य वृतेः? चकार एव तु न कृतः, किं कुर्मः! यदि तु विकल्पार्थेनानेन प्रत्ययो विल्प्येत, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनौ द्वावपि स्याताम्। नन्वेवं सति सूत्रारम्भोऽनर्थकः स्यात्, विनाप्यनेन प्रत्ययत्रयस्य सिद्धत्वात्, तत इनिरेव भविष्यति। कुतो नु खल्वेतद् - इनिरेव भविष्यति न पुनष्ठनेव स्यादिति ? तस्मात्समुच्चयः ॥